________________
पण्णसमत्ते सया जए, समताधम्ममुदाहरे मुणी।
सहमे उ सदा अलसए. णो कुज्झे णो माणि माहणे ॥६॥ व्याख्या-'प्रज्ञासमाप्तः' पटुप्रज्ञः (अथवा ) 'पण्हसमत्थे' प्रश्नविषये प्रत्युत्तरदानसमर्थो वा साधुः सदा | जयेत्कषायादिकं ( तथा) समतया अहिंसालक्षणं धर्ममुदाहरे-त्कथयेन्मुनिः 'सूक्ष्मे' संयमे सदा 'अलूषको' अविराधको हन्यमानो न क्रुध्येत् पूज्यमानो नापि 'मानी' गर्वितः स्यान्माहन इति गाथार्थः ॥ ६ ॥ अपिच
बहजणनमणम्मि संवुडे, सबढे हि नरे अणिस्सिए ।
हरएव सया अणाविले, धम्मं पादुरकासि कासवं ॥ ७ ॥ व्याख्या-बहुजननमनो धर्मः, किमुच्यते ? बहुभिजनैरात्मीयात्मीयाभिप्रायेण यथाऽभ्युपगमप्रशंसया स्तूयतेप्रशस्यते, येन यादृशो धर्मः स्वीकृतोऽस्ति स तमेव धर्म श्लाघते । सर्वोऽप्यात्मानं धार्मिकं मन्यते +, अत एव बहुजननमनो धर्मस्तस्मिन् 'संवृतः' समाहितः सन् 'नरः' पुमान् सर्वबाह्याभ्यन्तरपरिग्रहे अप्रतिबद्धः सन् धर्म 'प्रादुरकार्षीत् ' प्रकाशयेदित्यर्थः। वर्तमाने भृत निर्देश'छान्दसत्वात् । कथम्भूतः हृद इव स्वच्छाम्भसा भृतः 'अनाविलो' जलचरजीवसंक्षोभेणाप्यकलुषः, एवंविधः साधुः क्षान्त्यादिलक्षणं दशविधं 'काश्यपं' तीर्थकरसम्बन्धिनं धर्म प्रकाशयेदिति गाथार्थः॥७॥
+ अत्राभयकुमारकृतपरीक्षापुण्यपापोपरि धवलेतरपटप्रासादकथा ज्ञेया।
अ
For Privale & Personal Use Only
Jain Education Intel
w.jainelibrary.org