________________
पुण्यावाप्तिरेवेति गाथार्थः ॥ १९॥ एवं तैरुपसर्गिताः सन्तः केचित्कातराः कदाचिदेतत्कुटुंरित्याह
अन्ने अन्नहिं मुच्छिया, मोहं जंति नरा असंवुडा ।
विसमं विसमेहिं गाहिया, ते पावहिं पुणो पगन्भिया ॥ २० ॥ व्याख्या-'अन्ये' अल्पसचाः कातराः प्राणिनः अन्यै-र्मातापित्रादिभिर्मूर्च्छिताः-ममत्ववन्तः असंवृता नराः, एवम्भूता | मोहं यान्ति-सदनुष्ठाने मुह्यन्ति, ततश्च ते विषमै-रसंयतैर्गृहस्थैर्विषम-असंयम प्राहिताः सन्तः पुनः पापकर्मणि प्रवृत्ताः 'प्रगल्भिताः' धृष्टतां गताः सन्तः पापं कुर्वन्तो न लज्जन्त इति गाथार्थः ॥ २०॥ ततः किं कर्त्तव्यमित्याह
तम्हा दवि इक्ख पंडिए, पावातो विरए अभिनिव्वुडे ।
पणता वीरा महावीहि, सिद्धिपहं णेयाउयं धुवं ॥ २१ ॥ व्याख्या-यतो मातापित्रादिमृञ्छिताः पापकर्मसु प्रगल्भा भवन्ति, तस्मात्त्वं 'पण्डितः' सदसद्विवेकयुक्तः 'द्रव्यभूतो' रागद्वेषरहितो मुक्तिगमनयोग्यः सन् ईक्षस्व-तद्विपाकं पर्यालोचय, पापेभ्यो विरत: 'अभिनिर्वृतः' क्रोधादिपरित्यागाच्छीतीभूतः प्रणताः (प्राप्ताः) वीराः महावीथिं 'सिद्धिपथं 'ज्ञानादिमोक्षमार्ग 'ध्रुवं' अव्यभिचारिणं अवगम्य स एव मार्गोऽनुष्ठेयो, नासदनुष्ठानप्रगल्मैर्भाव्यमिति गाथार्थः ॥ २१ ॥ पुनरप्युपदेशदानपूर्वकमुपसंहरनाह
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org