SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'शकुनिका' पक्षिणी यथा 'पांशुना' रजसा अवगुण्ठिता सती अङ्गं 'विधूय' कम्पयित्वा तद्रजः 'सितं' बद्धं 'ध्वंसयति' अपनयति, एवं तपस्वी माहनो+'दवितो' द्रव्यो-भव्यो मुक्तिगमनयोग्यः ' उपधानवान् ' तपोयुक्तः कर्म ज्ञानावरणीयादिकं क्षपयति-अपनयतीति गाथार्थः ॥ १५॥ अथानुकूलोपसर्गमाह उट्ठियमणगारमेसणं, समणं ठाणठितं तवस्सिणं । डहरा बुड्डा य पत्थए, अवि सुस्से ण य तं लभे जणा ॥ १६ ॥ व्याख्या-'अनगारं' श्रमणं संयमोत्थानेन एषणां प्रत्युत्थितं-प्रवृत्तं उत्तरोत्तरविशिष्टतपोनिष्टप्तदेहं स्थानस्थितं | कदाचित् 'डहरा' पुत्रनवादयो 'वृद्धाः' मातृपितृप्रभृतयः 'उनिष्क्रामयितुं' प्रव्रज्यां मोचयितुं प्रार्थयेयुस्ते तं साधुमेवं वदेयु:-वयं भवता प्रतिपाल्याः, न त्वामन्तरेण कोऽपि नः पालयिता, एवं च ते भणन्तोऽपि जनाः पुत्रादयः अपि 'शुष्येयुः' श्रमं गच्छेयुर्न च तं साधं विदितपरमार्थ 'लमेरन् ' नैवात्मवशं विदध्युरिति गाथार्थः ।। १६ ॥ किञ्च जइ कालुणियाणि कासिया, जइ रोयंति य पुत्तकारणा। दवियं भिक्खुं समुट्ठियं, नो लब्भति ण संठवित्तए ॥ १७ ॥ व्याख्या-यद्यपि ते मातृपिपुत्रकलत्रादयः ' कारुण्यानि' करुणाप्रधानानि वचांसि अनुष्ठानानि कुर्युः 'रोयंति'त्ति + " मा वधीरिति प्रवृत्तिर्यस्य स प्राकृतशैल्या माहनः" इति हर्षकुलगणिः । Jain Education a l For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy