SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वल्या ४८ भार त्या ७ ४९ कवी ॥४१॥ ANSAGARLSMSANAM कविसंबन्धिसूक्तानि ४९ ___ अकवित्वं परस्तावत्कलङ्कः पाठशालिनाम् । अन्यकाव्यैः कवित्वं तु, कलङ्कस्यापि चूलिका ॥१॥ सन्त्येके बहलालापाः, कवयो बालका इव । अप्रगल्भाः पदन्यासे, जननीरागहेतवः॥ २ ॥ स्तोकाऽपि वन्द्यते लोकैः, कस्यापि सुकवेः कृतिः। कलेव हरिणाङ्कस्य, स्फुरन्ती नवरेखया ॥ ३॥ किं कवेस्तस्य काव्येन?, किं काण्डेन धनुष्मतः? । परस्य हृदये लग्नं, न घूर्णयति यच्छिरः॥४॥ किं तेन किल काव्येन, मृद्यमानस्य यस्य ताः । उदधेरिव नायान्ति, रसामृतपरम्पराः॥५॥ यन्नेत्रस्त्रिभिरीक्षते न गिरिशो नाष्टाभिरप्यब्जभूः, स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण वा । संभूयापि जगत्रयस्य नयनैर्द्रष्टुं न यत्पार्यते, प्रत्याहृत्य दृशौ समाहितधियः पश्यन्ति तत्पण्डिताः ॥६॥ कवयः कालिदासाद्याः, कवयो वयमप्यमी । पर्वते परमाणौ च, पदार्थत्वं व्यवस्थितम् ॥७॥ उत्फुल्लगल्लैरालापाः, क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्, कविरेव कवेः श्रमम् ॥८॥ शमिनां दमिनां यमिनां विवादतो जायते तपोलोपः। सति सामर्थ्य तस्माद्वयं विवादं न कुर्मोऽत्र ॥९॥मातुः पुरो मातुलवर्णनं तल्लंकानगर्या लहरीयक तत् । तत्प्राभृतं लावणमम्बुराशेः, सतां पुरो यद्वचसां विलासः॥ १०॥ विरला जाणंति गुणा विरला विरयंति ललिअकव्वाई। विरला साहस्सधणा परदुक्खे दुक्खिआ विरला ॥११॥ अत्थालोयण तरला इअरकईणं भवंति बुद्धीओ। अत्थु च्चेव निरारंभर्मिति हिययं कइंदाणं ॥१२॥ सहदेसे विन्नाणं पञ्चक्खकईहिं जं कयं कव्वं । निभमहिलाण य विरला जानन्ति गुणान् विरला विरचयन्ति ललितकाव्यानि । बिरलाः साहसधनाः परदुःखे दुःखिता बिरलाः ॥११॥ CSCOREOGAMACHC ॥४१॥ Jain Education intentional For Private & Personal Use Only
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy