SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां ॥ ४० ॥ तत्परोऽपि नैवाबुधः समधिगच्छति वस्तुतत्त्वम् । नानाप्रकाररसमध्यगताऽपि दव, स्वादं रसस्य सुचिरादपि नैव वेत्ति ॥ १७ ॥ यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम् ? । लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ॥ १८ ॥ पापठीति सकलं च वाङमयं, बोबुधीति न च किञ्चिदप्यसौ । रत्नभारमिव गद्दभः सदा, बावहीति किल बोभुजीति नो ॥ १९ ॥ जहा खरो चंदनभारवाही, भाररस भागी नहु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु | सुग्गईए ॥ २० ॥ परीक्षा सर्वशास्त्रेषु, विधातव्या विचक्षणैः । न कुशास्त्रप्रणीतं हि कर्त्तव्यं विषभक्षणम् ॥ २१ ॥ मूर्खसंबन्धिसूक्तानि ४७ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयति ॥ १ ॥ यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलितं मम मनः । यदा किञ्चित्किञ्चिदुधजनसकाशादवगतं, तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ २ ॥ शक्यो वारयितुं जलेन दहनछत्रेण सूर्याऽऽतपो, नागेन्द्रो निशिताङ्कुशेन समदं दंडेन गोगर्दभौ । व्याधिर्भेषजसंग्रहेण विविधैर्मन्त्रप्रयोगैर्विषं, सर्वस्योपधमस्ति शास्त्र - | विहितं मूर्खस्य नास्त्यौषधम् ॥ ३ ॥ खण्डखण्डेषु पाण्डित्यं क्रयक्रीतं च मैथुनम् । भोजनं च पराधीनं, तिस्रः पुंसां विडम्वनाः ॥ ४ ॥ गुरूणां विद्यया विद्वान्, पितृवित्तेन वित्तवान् । शूरः परसहायेन, नन्दिष्यति कियच्चिरम् ॥ ५ ॥ ४ ॥ ४० ॥ १ यथा खरश्चन्दनभारवाही भारस्य भागी नैव चन्दनस्य । एवमेव ज्ञानी चरणेन हीनो ज्ञानस्य भागी नैव सुगतेः ॥ २० ॥ Jain Education International ४७ मूर्खे १० For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy