SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ येन हि यातं जातं सकलं शकलं शकृत् सकृत् ॥ ४॥ श्लोकः सुश्लोकतामेति, पठितस्तद्विदां पुरः। अज्ञाने श्रोतरि प्राप्ते, लूनः श्लोकस्तदा भवेत् ॥५॥ शुनः पुच्छमिव व्यर्थ, विना ज्ञानं हि जीवितम् । न गुह्यरक्षणे दक्षं, न दंशमशकापहम् ॥ ६ ॥ रूपयौवनसंपन्ना, विशालकुलसंभवाः। विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः॥७॥ यद्यपि भवति विरूपो वस्त्रालंकारवेषपरिहीणः । सज्जनसभां प्रविष्टः शोभामुदहति सद्विद्यः॥८॥ पुरुषस्य परं विभूषणं, परमार्थं श्रुतमेव नापरम् । प्रशमो विनयश्च तत्फलं, प्रकटं नीतिविदः प्रचक्षते ॥ ९॥ वरं दरिद्रोऽपि विचक्षणो नरो, नैवार्थयुक्तोऽपि सुशास्त्रवर्जितः । विचक्षणः कार्पटिकोऽपि शोभते, न चापि मूर्खः कनकैरलष्कृतः॥१०॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥११॥ शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा, विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः। तज्जाड्यं वसुधाधिपस्य सुधियो ह्यर्थ विनाऽपीश्वराः, कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पतिताः॥१२॥ हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मनाऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं वृद्धि परां गच्छति । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं, येषां तान् प्रति मानमुज्झत जनाः कस्तैः सह स्पर्धते ? ॥ १३ ॥ लक्षणेन विना विद्या, निर्मलापि न शोभते । युवती रूपसंपन्ना, दरिद्रस्येव वेश्मनि ॥१४॥ सुलभानि हि शास्त्राणि, गुरूपदेशस्तु दुर्लभः। शिरो वहति पुष्पाणि, गन्धं जानाति नासिका ॥१५॥ कुलीनाः सुलभाः प्रायः, सुलभाः शास्त्रशालिनः । सुशीलाश्चापि सुलभा, दुर्लभा भुवि तात्त्विकाः॥१६॥ शास्त्रावगाहपरिघट्टन Jain Education in For Private & Personal use only
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy