SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सूकमुक्ता- अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् । विषं गोष्ठी दरिद्रस्य, वृद्धस्य तरुणी विषम् ॥ ११॥ विषं कुपठिता विद्या, ४५ विद्योवल्यां विषं व्याधिरुपेक्षितः । विषं गोष्ठी दरिद्रस्य, वृद्धस्य तरुणी विषम् ॥ १२ ॥ श्रद्धाघोषौ यदि स्यातां, प्रज्ञया किं प्रयोज- द्यमे २० नम् । तावेव यदि न स्याता, प्रज्ञया किं प्रयोजनम् ? ॥ १३॥ विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा । अथवा विद्य- ४६ विद्याया विद्या, चतुर्थो नैव विद्यते ॥ १४ ॥ क्रमेण शैलः सलिलेन भिद्यते, क्रमेण वाल्मीकशिखाऽभिवर्द्धते । क्रमेण विद्यावा विनयेन प्राप्यते, क्रमेण मोक्षस्तपसाधिगम्यते ॥ १५ ॥ आरोग्यबुद्धिविनयोद्यमशास्त्रंरागाः, पञ्चान्तराः पठनसिद्धिगुणा भवन्ति । आचार्यपुस्तकनिवाससहायद्रव्यं (वल्भाः), बाह्याश्च पञ्च पठनं परिवर्द्धयन्ति ॥ १६ ॥ ज्ञानाधिकैरहरहः परिघृष्यमाणाः, प्रायेण मन्दमतयोऽपि भवन्ति तज्ज्ञाः। संसर्गजं गुणमवाप्य हि पाटलायास्तोयं कपालशकलान्यपि IN वासयन्ति ॥१७॥ सुखार्थी त्यजते विद्यां, विद्याथीं त्यजते सुखम् । सुखार्थिनः कुतो विद्या?, विद्यार्थिनः कुतः सुखम् ? ॥१८॥ अलसो मन्दबुद्धिश्च, सुखितो व्याधितस्तथा । निद्रालुः कामुकश्चेति, षडेते शास्त्रवर्जिताः ॥ १९॥ आलस्येन ही हता विद्या, आलापेन कुलस्त्रियः। अल्पबीजं हतं क्षेत्रं, हतं सैन्यमनायकम् ॥ २०॥ अथ विद्याप्रभावसूक्तानि ४६ | विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ १॥ लक्ष्मीः सुवर्णरूपापि, पाणिपादेषु योज्यते । भूषयत्यन्तरात्मानं, वर्णरूपाऽपि भारती ॥२॥ न हीनो धनहीनोऽपि, धनं वा कस्य सु. ॥ ३९ ॥ स्थिरम् ? । विद्याहीनस्तु यः कोऽपि, स हीनः सर्ववस्तुषु ॥ ३॥ यद्यपि बहु नाधीषे तथापि भव संस्कृते प्रयोगज्ञः। Jain Education a nal For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy