________________
Jain Educatic
ब्रह्मा व्यासः सत्यवतीसुतः ॥ ११ ॥ अष्टादश पुराणान्यप्यष्टौ व्याकरणानि च । तावत्सर्वमहं वेद्मि, यावत्कोऽपि न पृच्छति ॥ १२ ॥ विद्योद्यमसंबन्धिसूक्तानि ४५
जईविहु दिवसेण पयं धरेइ पक्खेण वा सिलोगद्धं । उज्जोअं मा मुंचसु जइ इच्छसि सिक्खिडं नाणं ॥ १ ॥ नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेक विकलैर्भूभारभूतैर्नरैः ? ॥ २ ॥ पठ पुत्र ! किमालस्यमपठो भारवाहकः । पठितः पूज्यते लोके, पठ पुत्र ! दिने दिने || ३ || काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां, निन्दया कलहेन वा ॥ ४ ॥ गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् । अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ॥ ५ ॥ गतेऽपि वयसि ग्राह्या, विद्या सर्वात्मना भृशम् । यदीह फलदा न स्यात्, सुलभा साऽन्यजन्मनि ॥ ६ ॥ सन्तोषस्त्रिषु कर्त्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्त्तव्यो, दाने चाध्ययने तपे ॥ ७ ॥ श्लोकार्द्ध श्लोकपादं वा, समस्तं श्लोकमेव वा । अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥ ८ ॥ पदेनैकेन मेधावी, पदानां विन्दते शतम् । मूर्खः पदसहस्रेण, पदमेकं न विन्दते ॥ ९ ॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलम् । तस्मान्मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥ १० ॥ १ यद्यपि च दिवसेन पदं धारयसि पक्षेण वा श्लोकार्थम् । उद्योगं मा चमुः यदीच्छसि शिक्षितुं ज्ञानम् ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org