________________
सूक्तमुक्तावल्यां
॥ ३८ ॥
* पावनं, ज्ञानं स्वर्गगतिप्रयाणपटहं ज्ञानं निदानं श्रियः ॥ ७ ॥ ज्ञानं कर्ममहीधभेदकुलिशं शंसन्ति मोहापहं, ज्ञानं भूषणमङ्गिनां वरधनं ज्ञानं जगद्दीपनम् । एतत्तत्त्वमतत्त्वमेतदपरं ज्ञानेन विज्ञायते, लोकालोकविलोकनैकपटवः स्युर्ज्ञानदानाजनाः ॥ ८ ॥ तद् ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥ ९ ॥ अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ १० ॥ अहङ्कारसंबन्धिसूक्तानि ४४
ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते ? ॥ १ ॥ विद्ययैव मदो येषां कार्पण्यं विभवे सति । तेषां दैवाभिभूतानां सलिलादग्निरुत्थितः ||२|| अहंकारे सति प्रौढे, वदत्येवं गुणावली । अहं कारे पतिष्यामि, समायाता त्वदंतिकम् ॥ ३ ॥ विषभारसहस्रेण, वासुकिर्नैव गर्जति । वृश्चिकस्तृणमात्रेणाप्यूर्ध्वं वहति कण्टकम् ॥ ४ ॥ त्यागिना किं दरिद्रेण ?, किं कुलीनेन पापिना ? । तुष्टेन किं कदर्येण ?, दर्पान्धेन बुधेन किं ? ॥ ५ ॥ सा विद्या या मदं हन्ति, सा श्रीर्याऽर्थिषु दीयते । धर्मानुसारिणी या च, सा बुद्धिरभिधीयते ॥ ६ ॥ बलिभ्यो वलिनः सन्ति, वादिभ्यः सन्ति वादिनः । धनिभ्यो धनिनः सन्ति, तस्माद्दर्प त्यजेद्बुधः ॥ ७ ॥ सर्वज्ञता नास्ति मनुष्यलोके, नात्यन्तमूर्खोऽपि हि कश्चिदस्ति । ज्ञानेन मध्याधमसत्तमेन, यो यद्विजानाति स तेन विज्ञः ॥ ८ ॥ बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अवोधोपहताश्चान्ये, जीर्णमङ्गे सुभाषितम् ॥ ९ ॥ उत्क्षिप्य टिट्टिभः पादमास्ते भङ्गभयाद्भुवः । स्वचित्तकल्पितो गर्वः, प्राणिनां क्वोपयुज्यते ॥ १० ॥ अभाललोचनः शम्भुर्द्विबाहुरपरो हरिः । अचतुर्वदनो
Jain Education International
For Private & Personal Use Only
४३ ज्ञाने
१०
४४ अहंकारे १२
।। ३८ ।।
www.jainelibrary.org