________________
SAUSIOS
पण्डितमाननीये, जैने मते सत्त्वहिते रमन्ते । सुगन्धिनि श्रीमति सत्पवित्रे, न मक्षिकाः पद्मवने पतन्ति ॥ ९॥ मोह धियो हरति कापथमुच्छिनत्ति, संवेगमुन्नमयति प्रशमं तनोति । सूतेऽनुरागमधिकं मुदमादधाति, जैनं वचः श्रवणतः। किमु नो विधत्ते ? ॥ १०॥ न देवं नादेवं न गुरुमकलङ्घन कुगुरुं, न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् । न सत्यं नासत्यं न हितमहितं नापि निपुणं, विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः॥ ११॥राज्यं वाजिविभूतिदन्तिनिवहं पादातिसद्विक्रम, संकल्पार्थदकल्पपादपलता धेनुर्वरा कामदा । चिन्तामात्रविचिन्तितप्रद इतश्चिन्तामणिः प्राप्यते, दुष्प्रापं भववारिधौ जिनपतेर्बोहित्थकल्पं वचः॥१२॥
ज्ञानसंबन्धिसूक्तानि ४३ दिन शूकः क्वापि मांसाशी, चच्चरे पाठमात्रतः । यस्याभ्यासः श्रुतांशेऽपि, तस्य हिंसामतिः कुतः? ॥१॥ मलिनस्य य
थाऽत्यन्तं, जलं वस्त्रस्य शोधकम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ॥२॥ विदुरः प्राह-आसनं सुतसंकीर्ण, ऋषिसंकीर्णमन्दि(माजि)रम् । हृदयं शास्त्रसंकीर्ण, देहि मे मधुसूदन ! ॥३॥ तृतीयं लोचनं ज्ञानं, द्वितीयो हि दिवाकरः। अचौर्यहरणं वित्तं, विना स्वर्ण विभूषणम् ॥ ४॥ आहारनिद्राभयमैथुनानि, सामान्यमेतत्पशुभिर्नराणाम् । ज्ञान विशेषः
खलु मानुषाणां, ज्ञानेन हीनाः पशवो मनुष्याः॥५॥ ज्ञानाद्विदन्ति खलु कृत्यमकृत्यजातं, ज्ञानाच्चरित्रममलं च द्व समाचरन्ति । ज्ञानाच्च भव्यभविनः शिवमाप्नुवन्ति, ज्ञानं हि मूलमतुलं सकलश्रियां तत् ॥ ६॥ ज्ञानं स्यात्कुमतान्ध-18
कारतरणिनि जगल्लोचनं, ज्ञानं नीतितरङ्गिणीकुलगिरिर्ज्ञानं कषायापहम् । ज्ञानं निर्वृतिवश्यमन्त्रममलं ज्ञानं मनः
GLOSSA
Jain Education in
For Privale & Personal use only
XMaw.jainelibrary.org