SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Jain Education कस्यागमिष्यत् श्रुतिपथमवपुर्वक्रशेषोऽपि राहुस्त्रैलोक्यख्यातधाम्नोर्यदि रविशशिनोर्वैरतां नाकरिष्यत् १ ॥ ८ ॥ महिमानं महीयांसं, सङ्गः सूते महात्मनाम् । मन्दाकिनीमृदो वन्द्यास्त्रिवेदी वेदिनामपि ॥ ९ ॥ इह भुवि कलयति लघुरपि महतां सङ्गेन कमपि महिमानम् । लङ्घयति शशिनि लीनः खमण्डलं हेलया हरिणः ॥ १० ॥ सङ्गः सर्वात्मना त्याज्यः, स चेत्यक्तुं न शक्यते । स सद्भिः सह कर्त्तव्यः सन्तः सङ्गस्य भेषजम् ॥ ११ ॥ चन्दनं शीतलं लोके, चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये, शीतलः साधुसंगमः ॥ १२ ॥ संसार कटुवृक्षस्य द्वे फले ह्यमृतोपमे । सुभाषितरसास्वादः, संगतिः सुजने जने ॥ १३ ॥ एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः १ ॥ १४ ॥ संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं, प्रायेणाधममध्यमोत्तमगुणः संवासतः संभवेत् ॥ १५ ॥ एके भेजुर्यतिकर गतास्तुम्बकाः पात्रलीलां, गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । एके केचिद् ग्रथितसुगुणा दुस्तरं तारयन्ति तेषां मध्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥ १६ ॥ ऐकह वल्लीजायाण पिच्छह तुंबाण अंतरं गुरुअं । एके पिअंति रुहिरं दुत्तरं तारइ पुणो अन्ने ॥ १७ ॥ माताऽप्येका पिताऽप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः ॥ १८ ॥ गवाशनानां स गिरः शृणोति, अहं च राजन्मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवताऽपि दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ १९ ॥ धर्मं ध्वस्तदयो यशश्रयुतनयो वित्तं प्रमत्तः १ एकव लीजातयोस्तुम्बयोः पश्यतान्तरं गुरुकम् । एके पिबन्ति रुधिरं दुस्तरं तारयन्ति पुनरन्ये ॥ १७ ॥ For Private & Personal Use Only v.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy