SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां ॥ ३४ ॥ तानुचिताचारवश्ये गौरवलाघवे ॥ ४ ॥ विवेकिनमनुप्राप्य, गुणा यान्ति समुन्नतिम् । सुतरां रत्नमाभाति, चामीकरनियोजितम् ॥ ५ ॥ निर्विवेकं नरं नारी, प्रायोऽन्यापि न काङ्क्षति । किं पुनः श्रीरियं देवी !, पुरुषोत्तमवल्लभा ॥ ६ ॥ आकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च । नेत्रवत्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः ॥ ७ ॥ पाण्डित्यमेतदेव हि यत्परगुणचित्तवृत्तिविज्ञानम् । शास्त्रविदोऽप्यमतज्ञाः कस्याप्रियतां न गच्छन्ति ? ॥ ८ ॥ परिच्छेदो हि पाण्डित्यं तदायत्ता 4 विभूतयः । अपरिच्छेदकर्त्तृणामापदो हि पदे पदे ।। ९ ।। उदीरितोऽर्थः पशुनाऽपि गृह्यते, हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यूहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः ॥ १० ॥ | सत्सङ्गसूक्तानि ३७ संगतिर्यादृशी तादृक्, ख्यातिरायाति वस्तुनः । रजनिज्र्ज्योत्स्नया ज्योत्स्नी, तमसा च तमस्विनी ॥ १ ॥ लोकरूढि - रिह प्रौढिरस्तु वस्तु यथा तथा । दधि मङ्गलधौरेयं, न पुनर्दुग्धमभ्यधुः ॥ २ ॥ क्षणादसारं सारं वा, वस्तु लोकैः परीक्ष्यते । निश्चिनोति मरुत्तूर्णं, तुलोच्चयशिलोच्चयौ ॥ ३ ॥ गुणवज्जनसंसर्गाद्याति स्वल्पोऽपि गौरवम् । पुष्पमालानुषङ्गेण, सूत्रं शिरसि धार्यते ॥ ४ ॥ गुणिनः समीपवत्तीं पूज्यो लोकस्य गुणविहीनोऽपि । विमलेक्षणप्रसङ्गादञ्जनमाप्नोति काणाक्षि ॥ ५ ॥ नीचोऽपि परिगृहीतो, महात्मभिः परमुपैति परभागम् । स्फटिकोपलोऽपि रक्तः कुशलैर्माणिक्यमनुकुरुते ॥ ६ ॥ उन्नतघनमध्यगतं निर्गुणमपि वहति सुरधनुः शोभाम् । तेन महद्भिः सार्द्धं संवासः प्रार्थ्यते सद्भिः ॥ ७ ॥ आस्तां तावद्दिगन्तप्रथितसुयशसां संगतिः सज्जनानां तैः सार्द्धं वैरयोगोऽप्यतिशय महतीमुन्नतिं संतनोति । लोके Jain Education International For Private & Personal Use Only विवेक द्वारं ३६ श्लो. १० सत्संग द्वारं ३७ श्लो. २३ ॥ ३४ ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy