SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ लभते लोके, नीचजातोऽपि सद्गुणैः । सौरभ्यात्कस्य नाभीष्टा, कस्तूरी मृगनाभिजा १ ॥ २१ ॥ जन्मस्थानं न खलु महिमा वर्णनीयो न वर्णो, दूरे शोभा वपुषि निहिता पङ्कशङ्कां करोति । यद्यप्येवं सकलसुरभिद्रव्यगन्धापहारी, को जानीते परिमलगुणं वस्तु कस्तूरिकायाः १ ॥ २२ ॥ कौशेयं कृमिजं सुवर्णमुपलाद्दर्वापि गोलोमतः पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिगपित्ततो रोचना, प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना १ ॥ २३ ॥ अन्तर्धृतगुणैरेव परेषां स्थीयते हृदि । अर्थ समर्थयन्त्येनं, समग्रं कुसुमस्रजः ॥ २४ ॥ कष्टान्यसहमानानां गुणारोपः कुतो भवेत् ? । वेधवन्धं सहित्वैव, पुष्पालिर्गुणमालिनी ॥ २५ ॥ गुणेष्वनादरं भ्रातः !, पूर्ण| श्रीरपि मा कृथाः । संपूर्णोऽपि घटः कूपे, गुणच्छेदात्पतत्यधः ॥ २६ ॥ गुणेष्वेवादरः कार्यः, किमाटोपैः प्रयोजनम् ? । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ २७ ॥ संघयेत्सरला सूची, वक्रा छेदाय कर्त्तरी । अतो विमुच्य वक्रत्वं, गुणानेव समाश्रय ॥ २८ ॥ गुणानामेव दौरात्म्याद्धरि धुर्यो नियोज्यते । असंजातकिणस्कन्धः, सुखं तिष्ठति गौर्गलिः ॥२९॥ | विवेक सूक्तानि ३६ गुणागुणज्ञेषु गुणीभवन्ति, ते निर्गुणं प्राप्य भवन्ति दोषाः । सुस्वादतोयप्रभवा हि नद्यः, समुद्रमासाद्य भवन्त्यपेयाः ॥ १ ॥ स्वयं स्वगुणविस्तारादूर्णनाभः पतत्यधः । तमेव संवरन्नूनं, पदमुच्चैर्विगाहते ॥ २ ॥ औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यपरिवर्जितः ॥ ३ ॥ स्वतो न कश्चन गुरुर्लघुर्वापि न कश्चन । उचि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy