SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ | मित्त । केही सेरी सांचरलं कहि नउं राखउं चित्त ॥ ३ ॥ रत्तर दिणयरु उग्गमइ, रत्तरं दाडिम फूल ! रत्तरं रत्ता जइ मिलइ, कवण करेसिइ मूल ? ॥ ४ ॥ परोक्षे कार्यहंतारं, प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं, विषकुम्भं पयोमुखम् ॥ ५ ॥ किं गुणैस्तस्य कर्त्तव्यं ?, चेतसो योऽभिरोचते । किं गुणैस्तस्य कर्त्तव्यं, चेतसो यो न रोचते ? ॥ ६ ॥ कृतज्ञस्वामिसंसर्गमुत्तमस्त्री परिग्रहम् । कुर्वन्मित्रमलोभं च नरो नैवावसीदति ॥ ७ ॥ उत्तमैः सह साङ्गत्यं, पण्डितैः सह सत्कथाः । अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ ८ ॥ ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयति चैवं, पड़िधं प्रीतिलक्षणम् ॥ ९ ॥ पापान्निवारयति योजयते हिताय, गुह्यं निगूहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १० ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः | पुरा तेऽखिलाः, क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रागमं, | युक्तं तेन जलेन शाम्यति सतां मैत्री भवेदीदृशी ॥ ११ ॥ आदिमध्यनिधनेषु सौहृदं, सज्जने भवति नेतरे जने । छिन्नताडितसुघृष्टतापितं, नान्यभावमुपयाति काञ्चनम् ॥ १२ ॥ शरावनौनदीवृक्षसमा प्रीतिः प्रशस्यते । प्रासादवेणिदण्डे - क्षुसमा प्रीतिर्न युज्यते ॥ १३ ॥ आरम्भगुव क्षयिणी क्रमेण, लध्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्ना, छायेव मैत्री खलसज्जनानाम् ॥ १४ ॥ अस्माभिश्चतुरम्बुराशिरसनाविच्छेदिनीं मेदिनीं भ्राम्यद्भिर्नस कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः । यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि च, व्याख्याय क्षणमे कमर्द्धमथवा निःश्वस्य विश्राम्यते ॥ १५ ॥ वारंवार मियं चिन्ता, वारंवारमियं कथा | युष्माकं दर्शनोत्कण्ठा, चक्षुषोः केन पूर्यते ? Jain Education Internation For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy