________________
वल्यां
उपकारद्वारं ३३ श्लो. ३७
सूकमुक्का- विदधत्युपकारममलात्मानः (मिह सन्तः)। बद्धमपि किं न जनयति सौरभ्यं केतकीकुसुमम् ? ॥ २७ ॥ उपकारः कृतो
पूऽल्पोऽपि, सतां याति न विस्मृतिम् । करम्बभोजनं वध्वाः, कुमारनृपतेरिव ॥ २८ ॥ परोपकारः क्रियते, स्वस्य कल्या
णहेतवे । ततोऽपि यद्यकल्याणं, कल्याणात्तत्परं पदम् ॥ २९ ॥ उपकृत्युपकुर्वाणा, ध्रियन्ते धरया न के?। अपकृत्युपकारी यस्तेनेयं ध्रियते धरा ॥ ३०॥ प्रत्युपकुर्वन् बह्वपि न भवति पूर्वोपकारिणां तुल्यः । एकोऽनुकरोति कृतं निष्कारणमेव कुरुतेऽन्यः॥३१॥ गुरुआ सहजिं गुण करई, कारण किंपि म जाणि । करिसण सिंचइ सर भरई, मेह किं मग्गइं दाणि? ॥३२॥ दो पुरिसे धरओ धरा अहवा दोहिं पि धारिआ पुहवी। उवयारे जस्स मई उवयरिअं जे न फुसंति ॥ ३३ ॥ विहलं जो अवलंबइ आपइपडिअंच जो समुद्धरइ । सरणागयं च रक्खइ तिसु तेसु अलंकिआ पुहवी ॥३४॥ अकृतज्ञा असंख्याताः, संख्याताः कृतवेदिनः। कृतोपकारिणः स्तोकाः, द्वित्राः स्वेनोपकारिणः ॥३५॥ न तं पश्यामि सौमित्रे!, कृते प्रतिकरोति यः । सर्वस्यापि कृतार्थस्य, मतिरन्या प्रवर्तते ॥ ३६॥ न हि मे पर्वता भारा, न मे भाराश्च सागराः। कृतघ्नाश्च महाभारा, भारा विश्वासघातकाः ॥ ३७॥ मैत्रीसंबन्धिसूक्तानि ३४
ईश्वरेण समं प्रीतिर्न मे लक्ष्मण! रोचते । गतस्य गौरवं नास्ति, आगते च धनक्षयः ॥१॥ सहजागराण सहसुअणाणं सहहरिससोअवंताणं । नयणाणं व धन्नाणं, आजम्मं निच्चलं पिम्मं ॥२॥ एक गढ़ सउ बारिआं बारी बारी | सह जागरतोः सह स्वपतोः सह हर्पशोकवतोः । नयनयोरिव धन्यानामाजन्म निश्चलं प्रेम ॥ २ ॥
RSRAM-4-
CA
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org