________________
सू. मु. ६
Jain Education
वृद्धौ येन विवर्द्धते व्रजति च क्षीणे क्षयं सागरः । आः ज्ञातं परकार्यनिश्चितधियां कोऽपि स्वभावः सतां, स्वैरङ्गैरपि, येन यान्ति तनुतां दृष्ट्वा परं दुःखितम् ॥ १४ ॥ यदमी दशन्ति दशना रसना तत्स्वादसुखमवाप्नोति । प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ॥ १५ ॥ लङ्घयति भुवनमुदधेर्मध्यं प्रविशति वहति जलभारम् । जीमूतः सत्त्वहिताः किं न कुर्वन्ति चान्यार्थे ॥ १६ ॥ यः परप्रीतिमाधातुं, भस्मतामपि गच्छति । विवेकिमानिना पश्य, धात्रा सोऽप्यगुरुः कृतः ॥ १७ ॥ पिबन्ति नद्यः स्वयमेव नाम्भः, स्वादन्ति न स्वादुफलानि वृक्षाः । पयोमुचां किं क्वचिदस्ति शस्यं ?, परोपकाराय सतां विभूतिः ॥ १८ ॥ धवलयति समग्रं चन्द्रमा जीवलोकं, किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि । भुवनविदितमेतत्प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये ॥ १९ ॥ कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां छायां कर्त्तुं पथि विटपिनामञ्जलिः केन बद्धः । ? अभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बद्धकक्षाः || २० || परोपकारः सुकृतैकमूलं, परोपकारः कमलादुकूलं । परोपकारः प्रभुताविधाता, परोपकारः शिवसौख्यदाता ॥ २१ ॥ रवेरेवोदयः शस्यः कोऽन्येषामुदये ग्रहः ? । न तमांसि न तेजांसि येषामभ्युदये सति ॥ २२ ॥ युक्तोऽसि भुवनभारे मा वहां कन्धरां कृथाः शेष ! । त्वय्येकस्मिन् दुःखिनि सुखितानि भवन्ति भुवनानि ॥ २३ ॥ बन्धनस्थोऽपि मातङ्गः परेषां भरणक्षमः । काकः स्वच्छन्द चारोऽपि स्वोदरेणापि दुःस्थितः ॥ २४ ॥ इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति संपदियम् । विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः १ ॥ २५ ॥ अपकारिण्यपि प्रायः, स्वच्छाः स्युरुपकारिणः । मारकेभ्योऽपि कल्याणं, रसराजः प्रयच्छति ॥ २६ ॥ बाधाविधायिनामपि
For Private & Personal Use Only
www.jainelibrary.org