SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तोऽपि सुजनो न वदत्यवाच्यं, निष्पीडितोऽपि रसमुद्गिरते यथेषुः । नीचो जनो गुणशतैरपि सेव्यमानो, हास्येन तद्वदति यत्कलहेऽप्यवाच्यम् ॥ १५ ॥ उदीरयन्ति दुर्वाक्यं, स्वच्छाः स्वोत्पातसंभवे । उद्गिरन्ति मलं नेत्राण्यात्मपीडासमागमे ॥ १६ ॥ दढरोसकलुसिअस्सऽवि सुअणस्स मुहस्स विप्पिअं कुत्तो । राहुमुहम्मिऽवि ससिणो किरणा अमिअं चिअ मुअंति ॥ १७॥ गुणदोषोक्तिसूक्तानि २९ | गुणदोषसमाहारे, गुणान् गृहन्ति साधवः । क्षीरनीरसमाहारे, हंसाः क्षीरमिवामलम् ॥ १ ॥ स्वगुणं परदोषं वा, वक्तुं याचयितुं परम् । अर्थिनं च निराकर्नु, सतां जिह्वा जडायते ॥२॥ स्वश्लाघा परनिन्दा च, मत्सरो महतां गुणे । असंबद्धप्रलापित्वमात्मानं पातयत्यधः ॥ ३॥ दूषणं मतिरुपैति नौत्तमी, माध्यमी स्पृशति भाषते न च। वीक्ष्य पार्श्वमथ भाषतेऽधमो, रारटीति सहसाऽधमाधमः॥४॥ संतेहिं असंतेहिं अ परस्स किं जंपिएहिं दोसेहिं । अच्छो जसो न लब्भइ सोवि अमित्तो कओ होइ ? ॥ ५॥ सन्तोऽप्यसन्तोऽपि परस्य दोषा, नोक्ताः श्रुता वा गुणमावहन्ति । वैराणि वक्तः परिवर्द्धयन्ति, श्रोतुश्च तन्वन्ति परां कुबुद्धिम् ॥ ६॥ असंख्याः परदोषज्ञा, गुणज्ञा अपि केचन । स्वयमेव स्वदोषज्ञा, विद्यन्ते यदि पञ्चषाः॥७॥ सर्वस्यात्मा गुणवान् सर्वः परदोषदर्शने कुशलः । सर्वस्य चास्ति वाच्यं न चात्मदोषान वदति कश्चित् ॥८॥ परवादे दशवदनः परदोषनिरीक्षणे सहस्राक्षः । सद्वृत्तवित्तहरणे बाहुसहस्रार्जुनो नीचः॥९॥ परदोषकथाविचक्षणः स्वगुणख्यापननित्यतत्परः । स्वयमेव हि दैवदण्डितः कुलशीले कथयत्यपण्डितः ॥ १०॥ प्रच्छा-2 *%A4%AA-500- A- - - Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy