________________
सप्त तुरगा, निरालम्बो मार्गश्चरणविकलः सारथिरपि । रवियत्येवान्तं प्रतिदिनमपारस्य नभसः, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १३ ॥ विपक्षः श्रीकण्ठो जडतनुरमात्यः शशधरो, वसन्तः सामन्तः कुसुममिषवः सैन्यमबलाः । तथापि त्रैलोक्यं जयति मदनो देहविकलः, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १४ ॥
सम्पद्विपत्संबंधिसूक्तानि २५ & जी मरणेण समं उप्पजइ जुब्बणं सह जराए। ऋद्धी विणाससहिआ हरिसविसाओ न कायव्वो ॥१॥ दुःखे है
दुःखाधिकान् पश्येत् , सुखे पश्येत्सुखाधिकान् । आत्मानं शोकहर्षाभ्यां, शत्रुभ्यामिव नार्पयेत् ॥२॥ कार्यः संपदि नानन्दः, पूर्वपुण्यभिदे हि सा। नैवापदि विषादश्च, सा हि प्रापापपिष्टये ॥३॥ नाऽभूम भूमिपतयः कति नाम वारान् ?, वारानभूम कति नाम वयं न कीटाः ? । तत्संपदां च विपदां च न कोऽपि पात्रमेकान्ततस्तदलमङ्ग! मुदा
शुचा च ॥ ४ ॥ खण्डः पुनरपि पूर्णः पुनरपि खण्डः पुनः शशी पूर्णः। संपद्विपदौ प्रायः कस्यापि न हि स्थिरे ४ स्याताम् ॥ ५॥ चंदस्स खउत्ति नहु तारयाण रिद्धीवि तस्स नहु ताण । गुरुआण चडणपडणं इअरजणा निच्चलिपडिअव्वं ॥६॥ प्रायोवृत्त्या विपदः परिहृत्यावस्तु वस्तुनि भवन्ति । न हि कोद्रवेषु कीटाः पतन्ति गोधूमरत्नेषु ॥७॥ आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न संपत्सु । अगुरोस्तथा न गंधः प्रागस्ति यथाऽग्निपतितस्य ॥८॥ सत्त्वोत्कर्ष
जीवितं मरणेन समं उत्पद्यते यौवनं सह जरया । ऋद्धिविनाशसहिता, हर्षविषादी न कर्त्तव्यौ ॥१॥
BHASSANSAR
Jain Educatio
n
al
For Privale & Personal use only
W
ww.jainelibrary.org