SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ *SARKAR- C है अतित्यागादनौचित्यमति सर्वत्र गर्हितम् ॥ ९॥ जीवन् भद्राण्यवानोति, जीवन् पुण्यं करोति च। मृतस्य देहनाशः स्याद्धर्माद्युपरमस्तथा ॥ १०॥ संहतिसूक्तानि २३ बहूनामप्यसाराणां, समुदायो जयावहः । तृणैः संजायते रज्जुर्वद्ध्यन्ते येन दन्तिनः ॥१॥ गिरयो येन भिद्यन्ते, धरा हायेन विदार्यते । संहतेः पश्य माहात्म्यं, तृणैर्वारि निवार्यते ॥ २॥ कुरुते कार्यमच्छिद्रं, तृणानामपि संहतिः। तालच्छवि कयाऽऽदित्यः, सप्रतापोऽपि वार्यते ॥३॥ संहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेषतः । तुरैरपि परिभ्रष्टा, न प्ररोहन्ति तण्डुलाः ॥ ४ ॥ गुणैः सर्वज्ञतुल्योऽपि, सीदत्येको निराश्रयः । अनयमपि माणिक्यं, हेमाश्रयमपेक्षते ॥ ५॥ वहीं प्रतिष्ठामाप्नोति, पञ्चभिः पूजितो नरः । उत्तमाझं शिरः प्रोक्तं, पञ्चेन्द्रियनिषेवितम् ॥ ६॥ तत्त्वमेको द्वयोर्मन्त्रः, त्रिभि|गीतं चतुःपथम् । कृषि च पञ्चभिः कुर्यात्संग्रामं बहुभिर्जनैः ॥७॥ मुण्डे मुण्डे मतिर्भिन्ना, कुण्डे कुण्डे नवं पयः। तुण्डे तुण्डे नवा वाणी, बहूनां नैकरूपता ॥ ८॥ एकोदरसमुत्पन्ना, एकनक्षत्रजातकाः । न भवन्ति समाः शीलैर्यथा बदरिकण्टकाः॥९॥ किमप्यसाध्यं महतां, सिद्धिमेति लघीयसः । प्रदीपो भूमिगेहान्तान्तं हन्ति न भास्करः॥१०॥ लघुनि लघवः समर्था गुरुकार्य गुरव एवं कर्तुमलम् । हन्ति रजोऽवश्यायस्तर्पयति धनागमः पृथिवीम् ॥११॥ लघुभ्यो यादृशी कीर्तिर्महद्भयः स्यान्न तादृशी । अरण्यं समृगं स्थानं, नगरं कीटिकाश्रितम् ॥ १२॥ HALCRECRUS KACHCCCCCAMERACTIONS Jain Education B na For Privale & Personal use only Mew.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy