________________
भविष्यद्वारं २१ श्लो. १०
विमर्श
द्वारं २२ श्लो. १०
सूक्तमुक्का- पधैः प्रहरणैश्च करोतु रक्षां, यद्भावि तद्भवति नात्र विचारहेतुः ॥५॥ गते शोको न कर्त्तव्यो, भविष्यं नैव चिन्तयेत् । वल्यां वर्तमानेन योगेन, वर्तन्ते हि विचक्षणाः॥६॥ अमुत्र भविता यत्ते, तच्चिन्तय शुभाशुभम् । इह ते कर्मणामेव, विपाक
श्चिन्तयिष्यति ॥७॥क्षणेन लभ्यते यामो, यामेन लभ्यते दिनम् । दिनेन लभ्यते कालः, कालः कालो भविष्यति ॥८॥ ॥२१॥
कालः पचति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागति, कालो हि दुरतिक्रमः॥९॥ कालः समविषमकरः परिभवसन्मानकारकः कालः । कालः करोति पुरुषं दातारं याचितारं वा ॥१०॥ विमर्शसूक्तानि २२
पुष्पैरपि न योद्धव्यं, किं पुनर्निशितैः शरैः । युद्धे विजयसंदेहः, प्रधानपुरुषक्षयः॥१॥ अङ्कमारुह्य सुप्तस्य, हन्तुः किं नाम पौरुषम् । विश्वासप्रतिपन्नानां, वश्चने का विदग्धता? ॥२॥ सहसा विदधीत न क्रियामविवेकः परमापदां
पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः॥३॥ सगुणमपगुणं वा कुर्वता कार्यमादी, परिणतिरवहाधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ४॥ यदपसरति
मेपः कारणं तत्प्रह, मृगपतिरपि कोपात्संकुचत्युत्पतिष्णुः । हृदयनिहितवैरा गूढमन्त्रप्रचाराः, किमपि विगणयन्तो 5.बुद्धिमन्तः सहन्ते ॥ ५॥ कर्मायत्तं फलं पुंसां, बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं, सुविचायैव कुर्वता
॥६॥ सवेथा सर्वकार्येषु, माध्यस्थ्यं शस्यते नृणाम् । दन्तपातः कथं न स्यादतिकपूरभक्षणात् ॥ ७॥ शल्यवाहविषामादीनां, सुकरैव प्रतिक्रिया । सहसाकृतकार्योत्थाऽनुतापस्य तु नौषधम् ॥ ८॥ तरुदाहोऽतिशीतेन, दुर्भिक्षमतिवर्षणात् ।
F
॥२१॥
Jain Educatio
n
al
For Privale & Personal use only
D
w w.jainelibrary.org