SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ रुणः॥ १९ ॥ श्रियमनुभवन्ति धीरा न भीरवः किमपि पश्य शस्त्रहतः। कर्णः स्वर्णालङ्कतिरञ्जनरेखाङ्कितं चक्षुः ॥ २०॥ पौष्पाः पञ्च शराः शरासनमपि ज्याशून्यमणोलता, जेतव्यं च जगत्रयं प्रतिदिनं जेताऽप्यनङ्गः किल । ईदृक्षेऽपि वशीकृतं त्रिभुवनं जानेऽस्मि तत्कारणं, तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ? ॥ २१॥ दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमानं तमो, वज्रेणाभिहताः पतन्ति गिरयः किं वज्रमात्रा नगाः? । हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशः, तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ? ॥ २२ ॥ सत्तु सरीरायत्तुं दैवायत्ती रिद्धि । इक्कलउ बहुहिं भिडइ जहिं साहसु तहिं सिद्धि ॥ २३ ॥ खेडि म खूटा टालि खूटा विणु खीखइ नहि । साहसि हुतउं हलु वहइ दैवतणइ कपालि ॥ २४ ॥ देवस्स मत्थए पाडिऊण सव्वं सहति कापुरिसा । देवोऽपि ताण संकइ, जेसिं तेओ परिप्फुरइ ॥२५॥ घरि सूरा मढि पंडिआ पुहवी पुरिसा न मंति । ते विरला जे सामिअह अवसरि नवि चुकंति ॥२६॥ भविष्यसंबन्धिसूक्तानि २१ ।। __ न स प्रकारः कोऽप्यस्ति, येनेयं भवितव्यता । छायेव निजदेहस्य, लङ्घयते जातु जन्तुभिः॥१॥ सा सा संपद्यते बुद्धिः, सा मतिः सा च भावना । सहायास्तादृशा ज्ञेया, यादृशी भवितव्यता ॥२॥ न स मन्त्रो न सा बुद्धिने स दोष्णां पराक्रमः । अपुण्योपस्थितं येन, व्यसनं प्रतिहन्यते ॥ ३ ॥ अवश्यं भाविनो भावा, भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य, महाऽहिशयनं हरेः॥४॥ पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम् । मन्त्री in Education For Privale & Personal use only Vivw.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy