________________
Jain Education in
फलन्ति पुरुषस्य यथेह वृक्षाः ॥ १७ ॥ अकारणं सत्त्वमकारणं तपो, जगत्रयव्यापि यशोऽध्यकारणम् । अकारणं रूपमकारणं गुणाः, पुराणमेकं नृषु कर्म कारणम् ॥ १८ ॥ वैद्या वदन्ति कफपित्तमरुद्विकारं, नैमित्तिका ग्रहकृतं प्रवदंति दोषम् । भूतोपसर्गमथ मन्त्रविदो वदन्ति, कर्मैव शुद्धमतयो यतयो गृणन्ति ॥ १९ ॥ मनसा मानसं कर्म, वचसा वाचिकं तथा । कायेन कायिकं तद्वन्निस्तरन्ति मनीषिणः ॥ २० ॥ जानामि पापं न च मे निवृत्तिर्जानामि पुण्यं न च मे प्रवृत्तिः । केनापि भूतेन हृदि स्थितेन, व्यादिश्यते यत्तदहं करोमि ॥ २१ ॥ यणंमि गहा सयणंमि सुवयणा सउणया वणग्गेसु । तह वाहरंति पुरिसं जह दिट्टं पुण्वकम्मेहिं ॥ २२ ॥ कत्थइ जीवो बलवं कत्थइ कम्माई हुंति बलिआई । जीवस्स य कम्मरस य पुव्वनिबद्धाई वेराई ॥ २३ ॥
भाग्योपक्रमसंबन्धिसूक्तानि २०
महतां स्थानसङ्गेऽपि, फलं भाग्यानुमानतः । ईश्वरकण्ठलग्नोऽपि, वासुकिर्मारुताशनः ॥ १ ॥ तावत्तेजस्विनां तेजो, यावद्भाग्यमभङ्गरम् । क्षीणतैलः कियत्कालं, प्रदीपोऽपि प्रदीप्यते ॥ २ ॥ प्रभवेत्सरभोगाय, सर्वस्य दिवसो निजः । दीपैरपि परोक्षैर्न हि दीपोत्सवोऽन्यदा ॥ ३ ॥ उद्यमं कुर्वतां पुंसां, भाग्यं सर्वत्र कारणम् । समुद्रमथनाल्लेभे हरिर्लक्ष्मीं हरो विषन् ||४|| सायर तुज्झ न दोसो दोसो अम्हाण चेव कम्माणं । रयणायरंमि भरिए सालूरो हत्थि मे लग्गो ॥ ५ ॥
गगने ग्रहाः स्वजने सुवचनाः शकुनयो बनाये । तथा व्याहरन्ति पुरुषं यथा दृष्टं पूर्वकर्ममिः ॥ २२ ॥ कुत्रचिज्जीवो बलवान् कचित्कर्माणि भवन्ति बलवन्ति । जीवस्य च कर्मणश्च पूर्वनिबद्धानि वैराणि ॥ २३ ॥ २ सागर ! तब न दोषो दोषोऽस्माकमेव कर्मणाम् । रत्नाकरे भृते दर्दुरो हस्ते मे लग्नः ॥५॥
For Private & Personal Use Only
w.jainelibrary.org