SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सावनजयो जीयते येन मृत्युः ॥ २५ ॥ कस्य स्यान्न स्खलितं? पूर्णाः सर्वे मनोरथाः कस्य ? । कस्येह सुखं नित्यं ? देवेन न खण्डितः को वा? ॥ २६ ॥ भ्रष्टं नृपतिकिरीटात्पतितं भूमौ तिरोहितं रजसा। विधिविलसितेन रत्नं जनचरणविडम्बनां सहते ॥ २७ ॥ जो करिवराण कुंभे पायं दाऊण मुत्तिए दलए। सो सीहो विहिवसओ जंबुअपयपिल्लणं सहए ॥ २८॥ एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः, सोऽहं सर्वजगत्पराभवकरो लङ्केश्वरो रावणः । सेतुं बद्धहामिमं शृणोमि कपिभिः पश्यामि लङ्कां वृतां, जीवद्भिस्तु न दृश्यते किमथवा किं वा न च श्रूयते ? ॥ २९ ॥ दृषद्भिः। सागरो बद्ध, इन्द्रजिन्मानवैर्जितः । वानरैर्वेष्टिता लङ्का, जीवद्भिः किं न दृश्यते ॥ ३०॥ कर्मसंवन्धिसूक्तानि १९ ___ हसन्तो हेलया कर्म, तत्कुर्वन्ति प्रमादिनः। जन्मान्तरशतैरेते, शोचन्तोऽनुभवन्ति यत् ॥१॥ यदत्र क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥२॥ कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः? । वशिष्ठदत्तलग्नोऽपि, रामः प्रबजितो वने ॥ ३॥ यत्नानुसारिणी विद्या, लक्ष्मीः पुण्यानुसारिणी। दानानुसारिणी कीर्तिर्बुद्धिः कर्मानुसारिणी ॥४॥ किं करोति नरः प्राज्ञः?, प्रेर्यमाणः स्वकर्मभिः। प्रायेण हि मनुष्याणां, बुद्धिः कर्मानुसारिणी ॥ ५॥ कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ ६॥ यदुपात्तमन्य १ यः करिवराणां कुम्भे पादं दत्त्वा मौक्तिकानि दलयति । स सिंहो विधिवशतो जम्बूकपादप्रेरणां सहते ॥ २८ ॥ सू.मु.४ Jain Education in For Privale & Personal use only mjainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy