SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां ॥ १८ ॥ Jain Education In | संकोचं मोचितं द्राग्वरकमलवनं धाम लुप्तं ग्रहाणाम् । संप्राप्तोऽर्थो जनेभ्यस्तदनु च निखिला येन भुक्ता दिनश्रीः, संप्रत्यस्तं गतोऽसौ हतविधिवशतः शोचनीयो न भानुः ॥ १५ ॥ निदाघे संतप्तः प्रचुरतरतृष्णातुरमनाः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः । तथा पङ्के मग्नस्तटनिकटवर्तिन्यपि यथा, न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ १६ ॥ स्फुरन्त्युपायाः शान्त्यर्थमनुकूले विधातरि । प्रतिकूले पुनर्यान्ति तेऽप्युपाया अपायताम् ॥ १७ ॥ स्थानं त्रिकूटः परिखा समुद्रो, रक्षांसि योद्धा धनदाच्च वित्तम् । संजीवनी यस्य मुखे च विद्या, स रावणः कालवशाद्विपन्नः ॥ १८ ॥ | वैदेहीदयितेऽपि दुष्टहृदयः पार्थेऽप्यनर्थप्रदो, जीमूतेऽपि यथोचितव्यवहृतिः कर्णेऽपि कर्णेजपः । भीमो भीमसुतापतावपि हरिश्चन्द्रेऽपि रौद्राशयः, शक्रेऽपि श्रितवक्रिमा हतविधिर्यस्तस्य केडमी वयम् ? ॥ १९ ॥ ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः । विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ २० ॥ इह खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । हरशिरसि शिरांसि यानि रेजुर्हरहर तानि लुठन्ति गृध्रपादे ॥ २१ ॥ यत्र मृत्युर्यतो दुःखं, यत्र श्रीर्यत्र बन्धनम् । तत्र तत्र स्वयं याति, प्रेर्यमाणः स्वकर्मभिः ॥ २२ ॥ शशिनि खलु कलङ्कं कण्टकाः पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् । स्वजनजनवियोगो दुर्भगत्वं सुरूपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥ २३ ॥ नैर्मल्यं यस्य संसर्गाद्भजन्ते समला अपि । जडं तदपि कुर्वाणः, परमेष्ठी ध्रुवं जडः ॥ २४ ॥ जानन्त्येके प्रगुणितधियो धर्मकामादिशास्त्रं, जानन्त्येके निपुणमतयो वेदसिद्धान्ततत्त्वम् । जानन्त्येतत्सकलमपरे तन्न जानन्ति के चिल्लीलारब्धत्रिभु For Private & Personal Use Only विधिविषयद्वारं १८ श्टो. ३० ॥ १८ ॥ jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy