________________
अनित्यतासूक्तानि १६ | मस्तकस्थायिनं मृत्यु, यदि पश्येदयं जनः। आहारोऽपि न रोचेत, किमुताऽकृत्यकारिता ? ॥१॥ अद्यैव हसितं ४ ४ गीतं, क्रीडितं यैः शरीरिभिः। अद्यैव ते न दृश्यन्ते, कष्टं कालस्य चेष्टितम् ॥२॥ संपदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, किं धनैः? कुरुत धर्ममनिन्द्यम् ॥ ३ ॥ स्वप्ने यथाऽयं पुरुषः प्रयाति, ददाति गृह्णाति करोति वक्ति । निद्राक्षये तच्च न किञ्चिदस्ति, सर्व तथेदं हि विचार्यमाणम् ॥ ४॥ चेतोहरा युवतयः स्वजनोऽनुकूलः, सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः। वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, संमीलने नयनयोन हि किञ्चिदस्ति ॥ ५॥ चला विभूतिः क्षणभङ्गि यौवनं, कृतान्तदन्तान्तरवर्ति जीवितम् । तथाप्यवज्ञा परलोकसाधने, अहो नृणां विस्मयकारि चेष्टितम् ॥ ६॥ अनित्यमारोग्यमनित्ययौवनं, विभूतयो जीवितमप्यनित्यम् । अनित्यताभिः प्रहतस्य जन्तोः, कथं रतिः कामगुणेषु जायते ? ॥ ७॥ श्रियो विद्युल्लोलाः कतिपयदिनं यौवनमिदं, सुखं दुःखाघ्रातं वपुरनियतं व्याधिविधुरम् । दुरापाः सत्सत्यो बहुभिरथवा किं ? प्रलपितैरसारः संसारस्तदिह निपुणं जागृत जनाः!॥ ८॥ भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं, बली कालश्चौरो नियतमसिता मोहरजनी। गृहीत्वा ज्ञानासि विरतिफलकं शीलकवचं, समाधानं कृत्वा स्थिरतरदृशो जागृत जनाः। ॥९॥ घनापायः कायः प्रकृतिचपला श्रीरपि चला, महारोगा भोगाः कुवलयदृशः सर्पसदृशः। गृहावासः पाशः प्रणयिषु सुखं स्थैर्यविमुखं, असारः संसारस्तदिह निपुणं जागृत जनाः ! ॥१०॥ आयुरितरङ्गभङ्गरतरं श्रीस्तूलतुल्यस्थितिस्तारुण्यं करिकर्णचञ्चलतरं स्वप्नोपमाः संगमाः । यच्चान्य
Jain Education alational
For Privale & Personal use only
Daww.jainelibrary.org