SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता वल्यां ॥ १४ ॥ पृच्छयते शरीरवताम् । पतितस्य दहनराशौ दग्धोऽसि न वेति कः प्रश्नः १ ॥ २० ॥ अहह गृही क्व नु कुशली बजा | संसारसागरे क्षिप्तः । यदि बत लभते पोतं तेनापि निमज्जते सुतराम् ॥ २१ ॥ कुसल म पुच्छिसि सस्वियाणि ! हाणि विहाणि विहाणि । इक्किक्कु वासरु नितू गलइ, कुगिइ कुगिई भाणि ॥ २२ ॥ ताऊ कुसल न पुच्छिअइ, हाणि विहाणि विहाणि । जर आवइ जुब्बणु गलइ, नित्तु न वल्लइ भाणि ॥ २३ ॥ शरीरासारत्वसूक्तानि १५ नित्यमित्रसमं देहं स्वजनाः पर्वसन्निभाः । नमस्कारसमो ज्ञेयो, धर्मः परमबान्धवः ॥ १ ॥ यत्प्रातः संस्कृतं धान्यं, मध्याह्ने तद्विनश्यति । तदीयरसनिष्पन्ने, काये का नाम सारता ? ॥ २ ॥ सुस्वादून्यन्नपानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्ठायै, तच्छरीरं कथं शुचि ? ॥ ३ ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपाथांस्यूषरभूरिव || ४ || अभ्यक्तोऽपि विलिप्तोऽपि, धौतोऽपि घटकोटिभिः । न याति शुचितां कायः, शुण्डाघट इवाशुचिः ॥ ५ ॥ कृमयो भस्म विष्ठा वा, निष्ठा यस्येयमीदृशी । स कायः परपीडाभिर्धार्यत इति को नयः ? ॥ ६ ॥ अमेध्यपूर्णे कृमिजालसंकुले, स्वभावदुर्गंध अशौच अध्रुवे (गन्धिनि शौचवर्जिते ) । कलेवरे मूत्रपुरीषभाजने, रमन्ति मूढा विरमन्ति पण्डिताः ॥ ७ ॥ इदं शरीरं परिणामदुर्बलं, पतत्यवश्यं श्लथसंधिजर्जरम् । किमौषधैः क्लिश्यसि ? मूढ दुर्मते !, निरा| मयं धर्मरसायनं पित्र ॥ ८ ॥ कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिखिनां रोमाण्यवीनामपि । पुच्छ स्नायुवसाविषाणनखरस्वेदादिकं किश्चन, स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किश्चित्पुनः ॥ ९ ॥ Jain Education International For Private & Personal Use Only अनुशास्तिद्वारं १४ श्लो. २३ शरीरासा रत्वद्वारं १५ श्लो. ९ ॥ १४ ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy