SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सू. मु. ३ Jain Education गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ ६ ॥ कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भमध्ये, कान्ताविश्लेषरूपव्यतिकरविषमो यौवने विप्रयोगः । नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः, संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ ७ ॥ दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृत्, बद्धा कर्मगुणैर्हृषीकचषकैः पीतप्रमादासवम् । कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं, गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् ॥ ८ ॥ दारिद्र्य कुलचेतसां सुतसुताभार्यादिचिन्ताजुषां नित्यं दुर्भरदेहपोषणकृते रात्रिन्दिवा खिद्यताम् । राजाज्ञाप्रतिपालनोद्यतधियां विश्राममुक्तात्मनां सर्वोपद्रवशङ्किनामघभृतां धिग्देहिनां जीवितम् ॥ ९ ॥ निर्द्रव्यो धनचिन्तया धनपतिस्तद्रक्षणे चाकुलो, निःस्त्रीकस्तदुपायसंगतमतिः स्त्रीमानपत्येच्छया । प्राप्तापत्यपरिग्रहोऽपि सततं रोगैरभिद्र्यते, जीवः कोऽपि कथञ्चनापि नियतं प्रायः सदा दुःखितः ॥ १० ॥ आः किं सुन्दरि ! सुन्दरं न कुरुषे ? किं नो करोषि स्वयं ?, धिक् त्वां क्रोधमुखीमलीकमुखरस्त्वत्तोऽपि कः कोपनः ? । आः पापे ! प्रतिजल्पसि प्रतिपदं ? पापस्त्वदीयः पिता, दम्पत्योरिति नित्यदन्तकलहक्लेशार्त्तयोः किं सुखम् ? ॥ ११ ॥ नानाकोलबिलाकुलं बहुरजःसंकीर्णमूर्णाभृतं, तार्ण जीर्णकुटीरकं कटु रटन् द्वारे च खञ्जः खरः । भार्याऽकार्यरता सुता बहुविधव्याधिन्यथाविह्वला, दण्डीखण्डमचण्डशीत हरणं वासस्तृणैः स्रस्तरः ॥ १२ ॥ गेहं जर्जरमाखुभिः कृतबिलं चेलं च यूकालयः, शय्या मत्कुणसंकुला वपुषि रुगू रूक्षाशनं भोजनम् । वृत्तिर्भारवहादिका परुषवागज्ञा कुरूपा वधूर्यस्येत्थं ननु सोऽपि नोज्झति गृहा For Private & Personal Use Only ww.jainelibrary.org dicin
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy