SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ शास्ता, शास्ता राजा दुरात्मनाम् । अथ प्रच्छन्नपापानां, शास्ता वैवस्वतो यमः ॥ २॥ जठराग्निः पचत्यन्नं, फलं कालेन पच्यते । कुमन्त्रैः पच्यते राजा, पापी पापेन पच्यते ॥ ३॥ सर्वत्र शुचयो धीराः, सुकर्मबलगर्विताः। कुकर्मभयवित्रस्ताः, पापाः सर्वत्र शङ्किताः॥४॥ अत्युग्रपुण्यपापानामिहेव फलमाप्यते । त्रिभिर्वस्त्रिभिर्मासैस्त्रिभिः पक्षस्त्रिभिर्दिनैः॥५॥ कुग्रामवासः कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च, षड् जीवलोके नरका भवन्ति ॥ ६॥ ग्रामे वासो नायको निर्वेवेकः, कौटिल्यानामेकपात्रं कलत्रम् । नित्यं रोगः पारवश्यं च पुंसामेतत्सर्वं जीवतामेव मृत्युः ॥७॥ मांचइ मांकुण घरु चुअइ चिल्लकडां बहु आई । अक्कुवालणि जव तउणि, नर गह एह फलाइ ॥ ८॥ कलिसंवन्धिसूक्तानि १२ ___ कृते वर्षसहस्रेण, त्रेतायां हायनेन च । द्वापरे यच्च मासेन, अहोरात्रेण तत्कलौ ॥ १ ॥ संकुचन्ति कलौ तुच्छाः, प्रसरन्ति महाशयाः । ग्रीष्मे सरांसि शुष्यन्ति, कामं वार्द्धिश्च वर्द्धते ॥ २ ॥ धर्मः पर्वतगस्तपः प्रवसितं सत्यं च दूरे गतं, पृथ्वी मन्दफला नृपाश्च कुटिलाः शस्त्रायुधा ब्राह्मणाः । लोकः स्त्रीषु रतः स्त्रियोऽतिचपला लौल्ये स्थिता मानवाः, साधुः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टः कलिः ॥३॥ कालः सम्प्रति वर्त्तते कलियुगः || सन्तो नरा दुर्लभा, देशाश्च प्रलयं गताः करभरैलॊभं गताः पार्थिवाः। नानाचौरगणा मुषन्ति पृथिवीमार्यो जनः क्षीयते,131 SOCCASSANGALOCALEGAORSCOCCA Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy