SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां ॥ १० ॥ पयोधिगतः सः ॥ २ ॥ यः प्राप्य दुष्प्रापमिदं नरत्वं धर्म न यलेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमधौ, चिन्तामणिं पातयति प्रमादात् ॥ ३ ॥ स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्येन्धभारम् । चिन्तारलं विकिरति कराद्वायसोड्डायनार्थ, यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ॥ ४ ॥ | आदित्यस्य गतागतै रहरहः संक्षीयते जीवितं, व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ५ ॥ ते धत्तूरतरुं वपन्ति भुवने प्रोन्मूल्य कल्पदुमं, चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं, ये प्राप्तं परिहृत्य धर्ममधमा धावन्ति भोगाशयाः ॥ ६ ॥ यत्संपत्त्या न युक्ता अगति तनुभृतो यच्च नापद्विमुक्ता, यन्नाधिव्याधिहीनाः सकलगुणगणालङ्कृताङ्गाश्च यन्नो । यन्न स्वर्ग लभन्ते निखिलसुखखनिं मोक्षसौख्यं च यन्नो, दुष्टः कल्याणमालादलनपटुरयं तत्र हेतुः प्रमादः ॥ ७ ॥ विना दिनानि सत्कर्म, हृदयङ्गमसङ्गमैः । धातः ! सरस्वतीतात, लिखन् मूर्ख ! न लज्जसे ? ॥ ८ ॥ प्रमादः परमद्वेषी, प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्दस्युः, प्रमादो नरकालयः ॥ ९ ॥ प्रमादस्य महाहेश्च दृश्यते महदन्तरम् । आद्याद्भवे भवे मृत्युः, परस्माज्जायते न वा ॥ १० ॥ अलसोऽनुपायवेदी भाग्यैरत्यन्तमुज्झितो यश्च । सीदति पुरुपत्रितयं केवलमिह जगति बहुरले ॥ ११ ॥ निद्रा मूलमनर्थानां निद्रा श्रियो विघातिनी । निद्रा प्रमादजननी, निद्रा संसारवर्द्धनी ॥ १२ ॥ अनिष्टे न मतिं दद्यात्तयाऽसौ नरकं व्रजेत् । तस्मात्सर्वप्रयत्नेन, इष्टे I Jain Education International For Private & Personal Use Only प्रमादत्यागद्वारे ८ श्लो. १४ ॥ १० ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy