________________
ACCOLOCALCROCOCCADCLOCK
मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥१४॥ स्वप्ने कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दु सकलं कुनि
यवशादल्पं फलं प्राप्य तत् । स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूय-| | स्तमाप्नोति न ॥ १५॥ राधाँया वदनादधः क्रमवशाच्चक्राणि चत्वार्यथ, भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोड-18 वाङ्मुखः। तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमानोति न ॥ १६॥ दृष्ट्वा कोऽपि हि कच्छपो इदमुखे सेवालबन्धे च्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । सेवाले मिलि. ते कदापि स पुनश्चन्द्रं किलाऽऽलोकते, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ १७ ॥ शम्या पूर्वपयोनिधौ ४ निपतिता भ्रष्टं युगं पश्चिमाम्भोधौ दुर्द्धरवीचिभिश्च सुचिरात्संयोजितं तद्वयम् । शम्या सा प्रविशेद्युगस्य विवरे तस्य | स्वयं क्वापि चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ १८॥ चूणींकृत्य पराक्रमान्मणिमयं स्तम्भं सुरः । क्रीडया, मेरौ सन्नलिकासमीरवशतः क्षिप्त्वा रजो दिक्षु चेत् । स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात्स चेत्पूर्ववत्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ १९ ॥
प्रमादत्यागसूक्तानि ८ दा चर्मवर्म किल यस्य न भेद्यं, यस्य वज्रमयमस्थि च तौ चेत् । स्थायिनाविह न कर्णदधीची, तन्न धर्ममव
धीरय धीर !॥१॥ आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति
AACANCCRACOCOCCAM
Jain Education intamational
For Privale & Personal use only
www.jainelibrary.org