SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ करिष्यति ? ॥ ३३ ॥ छिन्नमूलो यथा वृक्षो, गतशीर्षो यथा भटः । धर्महीनो धनी तद्वत्कियत्कालं ललिष्यति ? ॥ ३४ ॥ मूलभूतं ततो धर्म, सिक्त्वा भोगफलं बुधाः । गृह्णन्ति बहुशो मूढाः, समुच्छिद्यैकदा पुनः ॥ ३५ ॥ यदि मोक्षफलं काले, भविता धर्मशाखिनः । सिक्तस्तथापि संसारसौख्यच्छायां करोत्यसौ ॥ ३६ ॥ अतः सिञ्चन्ति तं पुण्यक्रियानीरेण पण्डिताः । अनाचार कुठारेण, पुनश्छिन्दन्ति बालिशाः ॥ ३७ ॥ रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त ! खेदमुपयासि किमत्र चित्रम् ? । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा, पुण्यं विना न हि भवन्ति समीहितार्थाः ॥ ३८ ॥ अवाप्य धर्मावसरं विवेकी, कुर्याद्विलम्बं न हि विस्तराय । तातो जिनस्तक्षशिलाधिपेन, रात्रिं व्यतिक्रम्य पुनर्न नेमे ॥ ३९ ॥ पुनः प्रभातं पुनरेव शर्वरी, पुनः शशाङ्कः पुनरुत्थितो रविः । कालस्य किं गच्छति ? याति जीवितं, तथापि मूढः स्वहितं न बुध्यते ॥ ४० ॥ ताराध्वतारातटिनीभुजङ्गतरङ्गगङ्गासिकता कणानाम् । संख्यां स कृत्वा कुरुतां हि धर्म, यो धर्ममीप्सुः कृतगेहकृत्यः ॥ ४१ ॥ येन प्रभुस्वजनवैभव देहगेहचिन्तातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकैराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ॥ ४२ ॥ जानासि शम्बलबलं बलमध्वगानां, नो शम्बलाय यतसे परलोकपान्थः । गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण येन न भवेत्क्रयविक्रयोऽपि ॥ ४३ ॥ प्रहरद्वयमार्गेऽपि, नराः कुर्वन्ति शम्बलम् । न कुर्वन्ति परत्रार्थे, वर्षकोटिप्रयाणके ॥४४॥ अबद्धमपि ह्यात्मानं सुवद्धमिव मन्यते । नलिका भ्रमण भ्रान्तपक्षीव विकलो जनः ॥ ४५ ॥ ग्रामान्तरे विहितशम्बलकः प्रयाति, सर्वोऽपि लोक इह रूढिरिति प्रसिद्धा । मूढस्तु दीर्घपरलो-कपथप्रयाणे, पाथेयमात्रमपि नो विदधात्यधन्यः ॥ ४६ ॥ जागर्ति यावदिह कालभुजङ्गमो न, पञ्चाननः स्वपिति याव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy