SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां १२७ विविधाधिक श्लो. ॥ ९४ ॥ कुलीनो भवति क्षणात् ॥ ५८॥ जानीयात्प्रेषणे भृत्यान् , बान्धवान् व्यसनागमे । मित्रमापदि काले च, भार्या च विभवक्षये ॥ ५९॥ जीवन्तो मृतकाः पञ्च, श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥ ६॥ धिग्दानमसत्कारं, पौरुषं धिक् कलङ्कितम् । जीवितं मानहीनं धिक्, धिक्कन्यां बहुभाषिणीम् ॥ ६१ ॥ सर्वस्य गात्रस्य शिरः प्रधान, सर्वेन्द्रियाणां नयनं प्रधानम् । सर्वोषधीनामशनं प्रधान, सर्वेषु पेयेषु पयः प्रधानम् ॥ ६२ ॥ दानेन पाणिर्न तु कङ्कणेन, मानेन तृप्तिनं तु भोजनेन । धनेन कान्तिनं तु चन्दनेन, ध्यानेन मुक्तिन तु दर्शनेन ॥ ६३ ॥ श्रीशान्तिनाथादपरो न दानी, दशार्णभद्रादपरो न मानी। श्रीशालिभद्रादपरो न भोगी, श्रीस्थूलभद्रादपरो न योगी॥६॥ | अश्वप्लतं माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यता च । अवर्षणं चापि च वर्षणं च, देवा न जानन्ति कुतो मनुष्याः? ॥६५॥ कानीनश्च पितामहः समभवन् पुत्रादयो गोलकाः, संजाताः पृथगन्यतातजनिताः कुण्डा ह्यमी पाण्डवाः। सर्वेण दुपदात्मजा सहचरी युद्धे हता बान्धवाः, श्रीकृष्णेन कुलं कलङ्कमलिनं नीतं जगद्वन्द्यताम् ।। ६६ ॥ शान्तश्चन्द्रश्चन्दनश्चैकजातिवींणा नारी मन्मथश्चैकजातिः । अश्वः खड्गः क्षत्रियश्चैकजातिमूर्खः काष्ठं गर्दभश्चैकजातिः ॥ ६७ ॥ पुत्रोऽपि मूर्यो विधवा च कन्या, शतं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहं ॥ ६८ ॥ क्षते प्रहाराः प्रपतन्त्यवश्यं, धान्यक्षये स्फूर्जति जाठराग्निः । आपत्सु मित्राणि विसंवदन्ति, छिद्रेष्वना बहुलीभवन्ति ॥ ६९ ॥ अर्थाऽऽतुराणां न सुहृन्न बन्धुः, क्षुधाऽऽतुराणां न वपुर्न तेजः । कामाऽऽतुराणां न भयं न लज्जा, चिन्ताऽऽतुराणां न सुखं न निद्रा ॥ ७॥ सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति शीलम् । ॥ ९४ ॥ Jain Education al For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy