________________
SACROSSACROSECONOLOG
गृध्राः। यत्रार्थिनस्तत्र रमन्ति वेश्या, यत्राऽऽकृतिस्तत्र गुणा वसन्ति ॥ ४२॥ स्थिरा कीतिरकीर्तिश्च, स्थिरं कर्म शुभा|शुभम् । स्थिरं दानं सुपात्रेषु, स्थिरा मैत्री सतां जने ॥ ४३ ॥ त्रयः स्थानं न मुञ्चन्ति, काकाः कापुरुषा मृगाः । अपमाने त्रयो यान्ति, सिंहाः सत्पुरुषा गजाः॥४४॥ पूगीफलानि पा(प)त्राणि, राजहंसतुरङ्गमाः। स्थानभ्रष्टाः सुशोभन्ते, सिंहाः सत्पुरुषा गजाः॥४५॥ राजा कुलवधूर्विप्रा, नियोगी मन्त्रिणस्तथा । स्थानभ्रष्टा न शोभन्ते, दन्ताः केशा || नखा नराः॥ ४६॥ या लोभाद्या परद्रोहाद्यः पात्राद्यः परार्थतः । मैत्री लक्ष्मीय॑यः क्लेशः, सा किं सा किं स किं स किम् ? ॥४७॥ अग्निरापः स्त्रियो मूर्खाः, सर्पो राजकुलानि च । नित्यं यत्नेन सेव्यानि, सद्यः प्राणहराणि षट् ॥४८॥ ॥ अग्निर्विरो यमो राजा, समुद्रमुदरं गृहम् । सप्तैतानि न पूर्यन्ते, पूर्यमाणानि नित्यशः ॥४९॥ आयुषो राजचित्तस्य, पिशुनस्य धनस्य च । खलस्नेहस्य देहस्य, नास्ति कालो विकुर्वतः॥५०॥ दुर्जनानां भुजङ्गानामङ्गनानां च भूभुजाम् । सत्कृतानामपि प्रायो, विश्रब्धव्यं न सर्वथा ॥ ५१॥ चित्रकृत्काव्यकर्त्ता च, कुवैद्यः कुनरेश्वरः । चत्वारो नरकं यान्ति, पञ्चमो ग्रामकूटकः ॥ ५२ ॥ धनधान्यप्रयोगेषु, विद्यासंग्रहणेषु च । आहारे च निहारे च, त्यक्तलज्जः सदा भवेत्॥५३॥ धर्मशोकभयाहारा, निद्रा कामः कलिः क्रुधः । यावन्मात्रा विधीयन्ते, तावन्मात्रा भवन्त्यमी ॥ ५५ ॥ बाल्यं वृद्धिर्वयो मेधा, त्वक्श्रोत्रनेत्रविक्रमाः। दशकेन निवर्तन्ते, मनः पञ्चेन्द्रियाणि च ॥ ५५॥ आयुष्कर्म च वित्तं च, विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते, गर्भस्थस्यैव देहिनः ॥५६॥ मातुः स्तन्यं रजःक्रीडा, मन्मना वागलज्जता । शैशवे सन्ति निर्हेतुर्हास्यं भोगः पितुः श्रियः ॥ ५७ ॥ शौर्येण वा तपोभिर्वा, विद्यया वा धनेन वा । अत्यन्तमकुलीनोऽपि,
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org