SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आपद्गता निष्करुणा भवन्ति, आर्त्ता नरा धर्मपरा भवन्ति ॥ ७१ ॥ सुजीर्णमन्नं सुविचक्षणः सुतः, सुसाधितास्त्रं नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न यांति विक्रियाम् ॥ ७२ ॥ बालसखित्वमकारणहास्यं, स्त्रीषु विवादमसज्जनसेवा । गर्दभयानमसंस्कृतवाणी, पट्सु नरो लघुतामुपयाति ॥ ७३ ॥ काके शौचं द्यूतकारेषु सत्यं, सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीवे धैर्य मद्यपे तत्त्वचिन्ता, राजा मित्रं केन दृष्टं श्रुतं वा ? ॥ ७४ ॥ सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किं, सद्विद्या यदि किं धनैः सुमहिमा यद्यस्ति किं मण्डनैः ? । लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः, सौजन्यं यदि किं निजैरपयशो यद्यस्ति किं मृत्युना ? ॥ ७५ ॥ यद्दारिद्र्यं कृपणजनतां प्रीणतः सैव लक्ष्मीर्यन्मर्त्तव्यं शरणमवतां जीवितव्यं तदेव । यद्भारत्वं गुरुजनरुषः स्यात्तदेवातिशौर्य, यत्स्वाधीनं कदशनमपि स्वादु पथ्यं तदेव ॥ ७६ ॥ आराधेयद्धर्ममनन्यकर्मा, प्रायः प्रसादावधिरेव सर्वः । आराडुमेनं तु कृतप्रसाद, कस्यापि विस्फूर्त्तिमियति चेतः ॥ ७७ ॥ अर्था नराणां पतिरङ्गनानां, वर्षा नदीनामृतुराट्र तरूणाम् । सद्धर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ॥ ७८ ॥ यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति, | वृद्धवाक्यात्स पूज्यते ॥ ७९ ॥ अनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चामी, सद्दानं दूषयन्ति हि ॥ ८० ॥ आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किंचानुमोदना पात्रदानभूषणपञ्चकम् ॥ ८१ ॥ ॥ समाप्तोऽयं ग्रन्थः ॥ इति श्रेष्ठि- देवचंद्र- लालभाई - जैन पुस्तकोद्धारे ग्रन्थाः ५७. Jain Education mational For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy