SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ॥९॥ वैद्यो गुरुश्च मन्त्री च, यस्य राज्ञः प्रियंवदाः। शरीरधर्मकोशेभ्यः, क्षिप्रं स परिहीयते ॥ १०॥ लज्जा वारेइ महं असंपया भणइ मग्गिरे मग्गि । दिन्नं माणकवाडं देहित्ति न निग्गया वाणी ॥ ११ ॥ उत्तम प्रणिपातेन, शूरं भेदे नियोजयेत् । नीचमल्पप्रदानेन, समशक्तिं पराक्रमैः ॥ १२॥ काशी विवर्जयेच्चौर्य, निद्रालुश्चर्मचौरिकां । जिह्वा लौल्यं च रागाढ्यो, जीवितं योऽत्र वाञ्छति ॥ १३ ॥ अनुचितकारम्भः, स्वजनविरोधो बलीयसा स्पर्द्धा । प्रमदाजनविश्वासो, मृत्युाराणि चत्वारि ॥१४॥ अविनीतो भृत्यजनो, नृपतिरदाता शठानि मित्राणि । अविनयवती च भार्या, मस्तकशूलानि चत्वारि ॥ १५ ॥ वैद्यस्तर्कविहीनो, निर्लज्जा कुलवधूव्रती पीनः। कटके च प्राघूर्णको, मस्तकशूलानि चत्वारि, ॥ १६ ॥ शीतमन्नं सुताजन्म, दुर्वातैर्दूषिता कृषिः । स्वजनैः सह मालिन्यं, स्वादहीनं चतुष्टयम् ॥ १७ ॥ जामाता कृष्णसर्पश्च, दुर्जनः पावकस्तथा । उपकारैर्न गृह्यन्ते, पञ्चमो भागिनेयकः॥१८॥ तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य | जीवितम् । विरक्तस्य तृणं नारी, निरीहस्य तृणं नृपः ॥ १९ ॥ अजीर्ण तपसः क्रोधो, ज्ञानाजीर्णमहङ्कतिः । परतप्तिः है क्रियाऽजीर्णमन्नाजीर्ण विसूचिका ॥ २०॥ उद्यमे नास्ति दारिद्यं, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति | जागरतो भयम् ॥ २१॥ बलं मूर्खस्य मौनत्वं, तस्करस्यानृतं बलम् । दुर्बलस्य बलं राजा, बालस्य रुदितं बलम् ॥२२॥ शकटं पञ्चहस्तेन, दशहस्तेन वाजिनम् । हस्तिनं शतहस्तेन, देशत्यागेन दुर्जनम् ॥ २३ ॥ आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुविग्रहे । राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ॥ २४ ॥ आचारः कुलमाख्याति, वपुराख्याति भोजनम् ।। संभ्रमः स्नेहमाख्याति, देशमाख्याति भाषितम् ॥ २५॥ ब्राह्मणजातिरद्विष्टो, वणिग्जातिरवञ्चकः । प्रियाजातिनिरी Jain Education lonal For Privale & Personal use only Bipww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy