________________
Jain Education Inte
तसु सीअली मउई निद्द न अंति । जं रुच्च तं रुअधउं छेआ एहु भणति ॥ २ ॥ यदेव रोचते यस्य, तदेव तस्य सुन्दरम् । श्रीखण्डे न तथा प्रीतिर्यथा रुद्रस्य भस्मनि ॥ ३ ॥ रुद्रो नग्नः कविः काणः, शनिः पंगुः शशी क्षयी । रामो दुःखी बलिर्ऋते, न दुःखं पञ्चभिः सह ॥ ४ ॥ सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ? । विद्यते स न हि कश्चिदुपायः, सर्वलोकपरितोषकरो यः ॥ ५ ॥
प्रकीर्णे तथाऽन्योक्तौ सूक्तानि १२६
ग्रामो वृत्त्यावृतः स्यान्नगरमुरु चतुर्गोपुरोद्भासिशोभं खेटं नद्यद्रिवेष्टं परिवृतमभितः कर्वटं पर्वतेन । ग्रामैर्युक्तं मडम्बं दलितदशशतैः पत्तनं रत्नयोनिद्रणाख्यं सिन्धुवेलावलयितमथ संबाधनं चाद्रिशृङ्गे ॥ १ ॥ मतिरप्राप्तविषया, बुद्धिः साम्प्रतदर्शनी । अतीते च स्मृतिज्ञेया, प्रज्ञा कालत्रये पुनः ॥ २ ॥ हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ ३ ॥ अनवस्थितचित्तानां प्रसादोऽपि भयङ्करः । सर्पिण्यत्ति किल स्नेहात्स्वाप - त्यानि न वैरतः ॥ ४ ॥ यद्यपि स्वच्छभावेन, दर्शयत्यम्बुधिर्मणीन् । तथापि जानुदनोऽयमिति चेतसि मा कृथाः ॥ ५ ॥ टण्कच्छेदे न मे दुःखं, न दाघे न च घर्षणे । एतदेव महद्दुःखं, गुञ्जया सह तोलनम् ॥ ६ ॥ स्थानं सर्वस्य दातव्यमे - कवारापराधिनः । द्वितीयपतने दन्ता, वक्त्रेणापि विवर्जिताः ॥ ७ ॥ न विना मधुमासेन, अन्तरं पिककाकयोः । वसन्ते च पुनः प्राप्ते, काकः काकः पिकः पिकः ॥ ८ ॥ मणिलुठतु पादाग्रे, काचः शिरसि धार्यताम् । परीक्षक करप्राप्तः,
१ चैत्रमासेन.
For Private & Personal Use Only
jainelibrary.org