________________
मुद्धृत्य, जनन्या जनितं मनः॥ ११॥ तीर्थानामष्टषष्टिश्च, विख्याता धरणीतले । तेषां भागीरथी श्रेष्ठा, ततोऽपि जननी मता ॥ १२॥ पतिता गुरवस्त्याज्या, माता न तु कथञ्चन । गर्भधारणपोषाभ्यां, यतो माता गरीयसी ॥ १३ ॥ पतिव्रता पतिप्राणा, पत्युः प्रियहिते रता । यस्य स्यादीदृशी भार्या, स धन्यः पुरुषो भुवि ॥ १४ ॥ पङ्गमन्धं च कुब्ज च, कुष्ठाङ्गं व्याधिपीडितम् । आपत्सु च गतं नाथं, न त्यजेत्सा महासती ॥ १५॥ क्रीडां शरीरसंस्कार, समाजोत्सवदर्शनम् । हास्यं परगृहे यानं, त्यजेस्रोषितभर्तृका ॥ १६ ॥ द्वारोपवेशनं नित्यं, गवाक्षावेक्षणं तथा । असत्प्रलापो हास्य च, दूषणं कुलयोषिताम् ॥ १७ ॥ लज्जा दया दमो धैर्य, पुरुषालापवर्जनम् । एकाकित्वपरित्यागो, नारीणां शीलरक्षणम् ॥ १८ ॥ पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥ १९ ॥ नदीतटेषु ये वृक्षा, या च नारी निराश्रया । मन्त्रिहीनाश्च राजानो, न भवन्ति चिरायुषः ॥२०॥ वरं कारागृहक्षिप्तो, वरं देशान्तरभ्रमी । वरं नरकसंचारी, न द्विभार्यः पुनः पुमान् ॥ २१ ॥ अभूषितो गृहाद्याति, नामोत्यम्बुच्छटामपि । अक्षा-8 लितपदः शेते, भार्याद्वयचरो नरः॥ २२ ॥ एका भार्या त्रयः पुत्रा, द्वे हले दश धेनवः । ग्रामे वासः पुरासन्ने, स्वर्गादपि विशिष्यते ॥ २३ ॥ यस्य पुत्रा वशे भक्ता, भार्या छन्दानुवर्तिनी। विभवेष्वपि संतोषः, स्वर्गस्तस्य इहैव हि ॥ २४॥ वरं रङ्ककलत्रत्वं, वरं वैधव्यवेदना । वरं नरकवासो वा, मा सपन्याः पराभवः ॥ २५॥ फोडीनामुहु सीअली विसह जु महुरउं नाम । सउ किह नामु जु बहिनडी ए तिन्निवि खय जाउ ॥ २६ ॥ सपत्नीनां शते वासः, पुत्रस्यापि न दर्शनम् । न्याय्ये कालेऽपि न स्वेच्छा, ही जन्म नृपयोषिताम् ॥ २७॥ एते शतं वयं पञ्च, यावद्वैरं परस्परम् । परैस्तु परि
Jain Education
l
For Private
Personal Use Only
(
jainelibrary.org