SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता वल्यां ॥ ८८ ॥ पुत्री संबन्धिसूक्तानि १२३ जाति पूर्व महती हि चिन्ता, कस्य प्रदेयेति ततः प्रवृद्धा । दत्ता सुखं स्थास्यति वा नवेति, कन्यापितृत्वं किल हन्त कष्टम् ॥ १ ॥ जम्मंतीए सोगो, बहुंतीए य वहुए चिंता । परिणीयाए दंडो, जुवइपिआ दुक्खिओ निचं ॥ २ ॥ निअघरसोसा परगेहमंडणी कलिकलंक कुलभवणं । जेहिं न जाया धूया, ते सुहिआ जीवलोअंमि ॥ ३ ॥ चोरा चिल्लका पुण गंधी भट्टा य वइद पाहूणया । वेसा धूअ नरिंदा परस्स पीडा न याणंति ॥ ४ ॥ कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीयास्ततः परं भाग्यवशा च कन्या ॥ ५ ॥ मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां चापि देया न कन्यका ॥ ६ ॥ अन्तःस्नेहादशनवसन स्नानताम्बूलवेषैः, संप्रीजन्ती दुहितरमिव प्रेक्षते या वधूटीम् । भक्तिग्राह्या मधुरवचना पुत्रिशिक्षासु दक्षा, श्वश्रूरेवं गुणगणयुता प्राप्यते पुण्ययोगात् ॥ ७ ॥ निर्व्याजा दयितादौ भक्ता श्वश्रूषु वत्सला स्वजने । स्निग्धा च बन्धुवर्गे, विकसितवदना कुलवधूटी ॥ ८ ॥ शय्योत्पाटन गेहमार्जनपयःपावित्र्यचुल्लीक्रियास्थालीक्षालनधान्यपेषणकलागोदोहतन्मन्थनैः । पाकैस्त त्परिवेषणैः समुचितैः पात्रादिशौच क्रियाश्वश्रूभर्तृननान्हदेवृविनयैः कष्टं वधूर्जीवति ॥ ९ ॥ मितं ददाति हि पिता, मितं भ्राता मितं सुतः । अमितस्य हि दातारं, भर्त्तारं का न पूजयेत् ॥ १० ॥ चन्द्रचन्दनकर्पूरगोस्तनीशर्करादयः । एतेषां सार१ जायमानायां शोको वर्धमानायां वर्धते चिन्ता । परिणीतायां दण्डः युवतिपिता दुःखितो नित्यम् ॥ २ ॥ निजगृहशोषा परगृह मण्डनी च कलिकलङ्ककुलभवनम् । येनै जाता दुहिता ते सुखिता जीवलोके ॥ ३ ॥ Jain Education International For Private & Personal Use Only १२३पुत्र्यां श्लो. ३० ॥ ८८ ॥ .www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy