________________
सूक्तमुक्तावल्यां
वके
-SAMACANCCCC
हारितम् ॥ ४॥ हीनमत्ति पुरो याति, निशि जागर्ति चाटुमान् । द्वारे तिष्ठति दीनात्मा, धिक्कष्टं श्वेव सेवकः॥५॥ १२१ से| शिरसा धार्यमाणोऽपि, सोमः सोमेन शम्भुना । तथापि कृशतां धत्ते, कष्टं खलु पराश्रयः॥६॥ तुल्यार्थं तुल्यसामर्थ्य, |मर्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं भृत्यं, यो न हन्यात्स हन्यते ॥ ७ ॥
श्लो. ७ पुत्रसंवन्धिसूक्तानि १२२
१२२ पुत्रे
| श्लो. २४ । उत्पतन्निपतन् रिसन् , हसल्लालावलीर्वमन् । कस्याश्चिदेव धन्यायाः, क्रोडमायाति नन्दनः॥१॥ शर्वरीदीपकश्चन्द्रः, प्रभाते रविदीपकः । त्रैलोक्यदीपको धर्मः, सुपुत्रः कुलदीपकः॥ २॥ एकेन वनवृक्षेण, पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्व, सुपुत्रेण कुलं यथा ॥ ३ ॥ एकेनापि हि शूरेण, पादाक्रान्तं क्षमातलम् । क्रियते भास्करेणेव, स्फारस्फु। रिततेजसा ॥४॥ एकोऽपि यः सकलकार्यविधौ समर्थः, सत्त्वाधिको भवति किं बहुभिः प्रसूतैः । चन्द्रः प्रकाशयति दिसुखमण्डलानि, तारागणः समुदितोऽप्यसमर्थ एव ॥५॥ योऽवश्यं पितुराचारः, पुत्रस्तमनुवर्तते । न हि केतकिवृक्षस्य, भवत्यामलकी फलम् ॥ ६ ॥ स एव पुत्रः पुत्रो यः, कुलमेव न केवलम् । पितुः कीर्ति च धर्म च, गुणांश्चापि, विवर्तयेत् ॥७॥ परिवर्तिनि संसारे, मृतः को वा न जायते । स जातो येन जातेन, याति वंशः समुन्नतिम् ॥ ८॥
" " ॥८७ ।। लालयेत्पञ्च वर्षाणि, दश वर्षाणि ताडयेत् । प्राप्ते च षोडशे वर्षे, पुत्रं मित्रमिवाऽऽचरेत् ॥ ९॥ लालनाद्बहवो दोषास्ताडनाद्बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च, ताडयेन्न च लालयेत् ॥१०॥ माता शत्रुः पिता वैरी, बालो येन न
CMAMALAMAC%AC
Jain Education
R
ional
For Privale & Personal use only
w
.jainelibrary.org