SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Jain Education कारान् शत्रौ मित्रे च बन्धुवर्गे च । नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन ? ॥ १७ ॥ प्राज्ञे नियोजितेऽमात्ये, महीशस्य गुणत्रयम् । यशः स्वर्गनिवासश्च, पुष्कलश्च धनागमः ॥ १८ ॥ कुलशीलगुणोपेतं, सत्यधर्मपरायणम् । रूपिणं सुप्रसन्नं च, राजाऽध्यक्षं तु कारयेत् ॥ १९ ॥ शीलवृत्तिधरो धीरः सर्वरत्नपरीक्षकः । शुचिरव्यभिचारी च, भाण्डाध्यक्षोऽभिधीयते ॥ २० ॥ इङ्गिताकारतत्त्वज्ञः प्रियवाक् प्रियदर्शनः । सकृदुक्तग्रही दक्षः, प्रतीहारः प्रशस्यते ॥ २१ ॥ चित्तज्ञः शीलसंपन्नो, वाग्ग्मी दक्षः प्रियंवदः । यथोक्तवादी स्मृतिमान्, दूतः स्यात्सप्तभिर्गुणैः ॥ २२ ॥ वेदसिद्धान्ततत्त्वज्ञो, जपहोमपरायणः । आशीर्वादपरो नित्यमेष राज्ञः पुरोहितः ॥ २३ ॥ अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्त्तते ॥ २४ ॥ सेवकसंबन्धिसूक्तानि १२१ सेवा श्ववृत्तिराख्याता, न तैः सम्यगुदाहृतम् । श्वा करोति हि पुच्छेन, मूर्ध्ना चाटूनि सेवकः ॥ १ ॥ मौनान्मूर्खः प्रवचनपटुर्वातुलः स्वल्पको वा, क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टः पार्श्वे भवति यदिवा दूरतोऽप्यप्रगल्भः, सेवाधर्मः परमगहनो योगिनामध्यगम्यः ॥ २ ॥ शूली जातः कदशनवशाद्भैक्ष्ययोगात्कपाली, वस्त्राभावाद्विगतवसनः स्नानदौःस्थ्याजटावान् । इत्थं सर्वं त्वदनुगमनादीश्वरत्वं मयाऽऽतं, अद्यापि त्वं मम नरपते ! नार्द्धचन्द्रं ददासि ? ॥ ३ ॥ सेवया धनमिच्छद्भिः, सेवकैः पश्य यत्कृतम् । स्वातन्त्र्यं यच्छरीरस्य, मूढैस्तदपि For Private & Personal Use Only w.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy