________________
कोटिफलं भवेत् ॥ १९ ॥ कार्य शत्रावपि प्राणत्राणं शरणमागते । निजपृष्ठानुगं ध्वान्त, प्रदीपः किं न रक्षति ? ॥२०॥॥ जलधेरपि कल्लोलाचापल्यानि कपेरपि । शक्यन्ते यत्नतो रोर्बु, न पुनः प्रभुचेतसः ॥ २१॥ मा स्म सन्धिं विजानन्तु, मा स्म जानन्तु विग्रहम् । आख्यातं यदि शृण्वन्ति, भूपास्तेनैव पण्डिताः ॥ २२ ॥ षट्कर्णो भिद्यते मन्त्रश्चतु:कर्णश्च। धार्यते । द्विकर्णस्य तु मन्त्रस्य, ब्रह्माऽप्यन्तं न गच्छति ॥ २३ ॥ स्वच्छन्दं छन्दवृत्त्या ये, रञ्जयन्ति महीपतिम् । ते पाययन्ति सपीषि, कुवैद्या इव सज्वरम् ॥ २४ ॥ सर्वत्र सुलभा राजन् !, सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य, वक्ता श्रोता च दुर्लभः ॥२५॥ यज्ञे हता ये पशवो म्रियन्ते, त एव भूपा इति वेदवाचः । तेनैव संस्कारवशेन तेषां, गतो विवेकः पृथिवीपतीनाम् ॥ २६॥ अविज्ञातविशेषस्य, सर्वतेजोऽपहारिणः । स्वामिनो निर्विवेकस्य, तमसश्च किम|न्तरम् ॥ २७ ॥ कामः क्रोधस्तथा हर्षो, माया लोभो मदस्तथा । षड्वर्गमुत्सृजेदेनं, तत्र त्यक्ते सुखी नृपः॥२८॥ | आज्ञाभङ्गो नरेन्द्राणां, वृत्तिच्छेदो द्विजन्मनाम् । पृथक् शय्या च नारीणामशस्त्रो वध उच्यते ॥ २९ ॥ रिक्तपाणिर्न पश्येच्च, राजानं भिषजं गुरुम् । नैमित्तिकं स्वप्नविदं, फलेन फलमादिशेत् ॥ ३० ॥ गन्तव्यं राजकुले द्रष्टव्या राजपूजिता लोकाः। यद्यपि न भवन्त्यास्तथाप्यनर्था विलीयन्ते ॥ ३१ ॥ घटवसरिपूर्णोऽपि, विदग्धो रागवानपि । ग्रहीतुं शक्यते केन, पार्थिवः कर्णदुर्बलः? ॥ ३२ ॥ मत्रिसंबन्धिसूक्तानि १२० । __ षट्कर्णो भिद्यते मन्त्रश्चतुःकर्णस्तु धार्यते । द्विकर्णस्य तु मन्त्रस्य, ब्रह्माऽप्यन्तं न गच्छति ॥१॥ आतुरे व्यसने |
Jain Education Infomational
For Privale & Personal use only
www.jainelibrary.org