SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्कावल्यां ११९ नृपे श्लो. ३२ ॥८५॥ यदि राजा न धार्मिकः । धार्मिके तु परं तत्र, सौख्यमत्र परत्र च ॥४॥ सच्छंद जंपिजइ, किजइ जं जं मणस्स पडि- भाइ । अलिअं च सच्चविज्जइ, पहुत्तणं तेण रमणिजं ॥ ५॥ राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः। राजान- मनुवर्तन्ते, यथा राजा तथा प्रजाः ॥६॥ शैशवेऽभ्यस्तविद्यानां, यौवने विषयैषिणाम् । वार्द्धके मुनिवृत्तीनां, योगेनान्ते तनुत्यजाम् ॥७॥ क्षमी दाता गुणग्राही, स्वामी दुःखेन लभ्यते । अनुकूलः शुचिर्दक्षः, स्वामिन् ! भृत्योऽपि दुर्लभः ॥८॥सेवा गुरौ तदादिष्टग्रहः पुरुषसंग्रहः । शौर्य धर्मश्च पञ्चामी, राज्यलक्ष्मीलताम्बुदाः॥९॥ आपन्नस्यातिहरणं, | शरणागतरक्षणम् । त्यागः पुण्यानुरागश्च, राज्यलक्ष्मीलताम्बुदाः॥ १० ॥ न च भोगान्न च त्यागान्न चाऽऽधेने च। रोगतः। प्रजासंतापनान्नूनं, क्षीयन्ते क्षितिपश्रियः॥११॥ दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अनार्यैः परिभूतानां, सर्वेषां पार्थिवो गतिः॥ १२॥ धर्मः क्षोणीभृतां शिष्टपालनं दुष्टनिग्रहः। मात्स्यो न्यायोऽन्यथा नूनं, भवेद्भुवनघस्मरः ॥ १३ ॥ न्यायो धर्मों दर्शनानि, तीर्थानि सुखसंपदः । यस्याऽऽधारे प्रवर्त्तन्ते, स जीयात्पृथिवीपतिः ॥ १४ ॥ पार्थिवानामलङ्काराः, प्रजानामेव पालनम् । किरीटकटकोष्णीषैर्भूष्यन्ते केवलं नटाः॥ १५॥ शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि । अभिषेकपट्टबन्धौ, बालव्यजनं व्रणस्यापि ॥ १६ ॥ प्रजानां धर्मषड्भागो, राज्ञो भवति । रक्षितुः। अधर्मस्यापि षड्भागो, जायते यो न रक्षति ॥ १७॥ लोकेभ्यः करमादाता, चौरेभ्यस्तानरक्षिता। तदीयैलि|प्यते राजा, पातकैरिति हि स्मृतिः॥ १८ ॥ अकरे करकर्ता च, गोसहस्रवधाघभृत् (धकृतः)। प्रवृत्तकरविच्छेदे, गवां | १ स्वच्छन्दं जल्प्यते क्रियते यद्यन् मनसि प्रतिभाति । अलिकं च सत्याप्यते, प्रभुत्वं तेन रमणीयम् ॥ ५ ॥ ॥८५॥ Jain Educationline For Privale & Personal use only NM.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy