________________
यो व्याधिभिर्थ्यायति बाध्यमानं, जनौघमादातुमना धनानि । व्याधीन् विरुद्धौषधतोऽस्य वृद्धिं नयेत्कृपा तत्र कुतोऽस्तु वैद्ये ॥ १२ ॥ रसायनैः सार्द्धमिहौषधानि, तदत्र वासान्मम मंदता न । इतीव वैद्यस्य हृदन्तरालं, लोभः पटुत्वं कलयन्न मुश्चेत् ॥ १३ ॥ प्रत्यूषसं वीक्ष्य पुरीषमूत्रदुर्गन्धसंबन्धवशेन मन्ये । सद्धर्मगन्धः सुरभिस्वभावो, विजृम्भते नो भिषजाङ्गणेषु ॥ १४ ॥ प्राप्नोति धर्मार्थयशांसि धर्माच्चिकित्सकः सञ्चरयं ( संरचयं ) श्चिकित्साम् । अर्थार्थतः केवलमर्थमेव, निषेवते धर्मयशोनिशुम्भी ॥ १५ ॥ अभूमिजमनाकाशं, रसास्वादविवर्जितम् । सुलभं रोगनिर्नाशि, वद वैद्य ! किमौषधम् ? ॥ १६ ॥ पौषे मासे निराहारा, बह्वाहाराश्च कार्त्तिके । चैत्रे मासे गुडाहारा, भवन्तु तव शत्रवः ॥१७॥ अत्यम्बु| पानाद्विषमासनाच्च, दिवाशयाज्जागरणाच्च रात्रौ । संधारणान्मूत्रपुरीषयोश्च षङ्गिः प्रकारैः प्रभवन्ति रोगाः ॥ १८ ॥ नृपसंबन्धिसूक्तानि ११९
1
दुष्टस्य दण्डः सुजनस्य पूँजा, न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुरांष्ट्ररक्षा, पश्चैव यज्ञाः कथिता नृपाणाम् ॥ १ ॥ दुष्टानां दमनं नयानुगमनं स्वीयप्रजापालनं नित्यं देवमहर्षिपादनमनं षड्दर्शनीमाननम् । औचित्याचरणं परोपकरणं त्यागं सुभोगं श्रियां, कुर्वाणो नृपतिः श्रिया निजपतिः सत्येव नो मुच्यते ॥ २ ॥ यस्तेजस्वी यशस्वी | शरणगत जनत्राणकर्मप्रवीणः, शास्ता शश्वत्खलानां क्षतरिपुनिवहः पालकः स्वप्रजानाम् । दाता भोक्ता विवेकी नयपथ* पथिकः सुप्रतिज्ञः कृतज्ञः, प्राज्यं राज्यं स राजा प्रथयात पृथिवीमण्डलेऽखण्डिताज्ञः ॥ ३ ॥ नरकान्तं तदा राज्यं,
सू. सु. १५
Jain Education
For Private & Personal Use Only
jainelibrary.org