________________
सूक्तमुक्ता
वल्यां
११६ व
ऋत्वे श्लो.५ ११७ व्य
॥८४॥
__ सने
". सदयोऽपमृत्युनच । यस्य तस्यद हस्तलाघ
द्यूतं, न पुनर्गुरुवाक्यतः ॥ ६॥ करघंटा नह पंडुरा सजण दूरीहूय । सूनां देउल सेविअइं तुज्झ पसाइं जूय ॥ ७॥ वैद्यसंबन्धिसूक्तानि ११८ | आयुर्वेदकृताभ्यासः, सर्वज्ञः प्रियदर्शनः । आर्यशीलः प्रसन्नात्मा, एष वैद्योऽभिधीयते ॥१॥ व्याधेस्तत्त्वपरिज्ञानं, | वेदनायाश्च निग्रहः । एतद्वैद्यस्य वैद्यत्वं, न वैद्यः प्रभुरायुषः ॥२॥ रोगं रोगनिदानं, रोगचिकित्सां च रोगमुक्तत्वम् । जानाति सम्यगेतद्वैद्यो नायुःप्रदो भवति ॥३॥ कालज्ञानविदां वरो मधुरवाक् शान्तः शुचिः शास्त्रवित्, धीरो धर्मपरो निदानचतुरो रोगप्रयोगे पटुः । संतुष्टः सदयोऽपमृत्युभयहृन्मृत्युक्षणज्ञो गुणी, संमूढः प्रतिकारकर्मणि न यो वन्द्यः स वैद्योत्तमः॥४॥ यस्य तस्य तरोर्मूलं, येन तेन प्रघृष्य च । यस्य तस्य प्रदातव्यं, यद्वा तद्वा भविष्यति ॥५॥ चितां प्रज्वलितां दृष्ट्वा, वैद्यो विस्मयमागतः । नाहं गतो न मे भ्राता, कस्येदं हस्तलाघवम् ? ॥ ६॥ पढेसु पुत्त! विजयं खीरखंडभुजयं । जइ मरइ कम्मयं जीवइ तउ रोकदम्मयं ॥ ७॥ आतुरे वित्तहरणं, मृते चाशु पलायनम् । एतद्वैद्यस्य वैद्यत्वं, न वैद्यः प्रभुरायुषः॥८॥ वैद्यराज ! नमस्तुभ्यं, यमभ्रातृसहोदरः । यमो हि हरति प्राणान् , द्रव्यप्राणहरो | भिषम् ॥९॥प्रच्छन्ना यमदूता, इव प्रभूताः कलौ न के वैद्याः? । शास्त्रवित्तरलबुद्धिः, सरल: परलोकभीविरलः ॥१०॥ कुसङ्गिनं सङ्गतिरस्तपुण्यं, पद्मा दरिद्रं पेणपद्मनेत्रा । क्षुद्रं क्षमाविषमं मृगाक्षी, वैद्यान् कृपा नाश्रयते कदापि ॥११॥1
। लक्ष्मीः . २ वेश्या.
श्लो.७ ११८ वैद्ये श्लो. १८
ININESS
॥८४ ॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org