SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ वक्रत्वसंबन्धिसूक्तानि ११६ । कार्या कार्याय कस्मैचित्सरलैरपि वक्रता । ऋजुतां वस्तुनो वेत्ति, किं चक्षुः कृणनं विना ॥१॥ वक्रत्वेन यथा लोके, गौरवं नार्जवे तथा । द्वितीयायां शशी वन्द्यः, पूर्णिमायां यतो न हि ॥२॥ नात्यन्तसरलैर्भाव्यं, गत्वा पश्य वनस्पतीन् । छिद्यन्ते सरलास्तत्र, कुब्जास्तिष्ठन्ति पादपाः॥३॥ नातीव मृदुना भाव्यं, मृदुः सर्वत्र बाध्यते । निःसारां कदलिं दृष्ट्वा, छेत्तुं को न समुद्यतः१ ॥ ४ ॥ नातिनीचैर्न चाप्युच्चैर्भवितव्यं फलार्थिना । स्तोकं नत्वा पिबन्नम्भः, कुम्भः। प्राप्नोति पूर्णताम् ॥ ५॥ व्यसनसंबन्धिसूक्तानि ११७ द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धिचौर्ये परदारसेवा । एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं नयन्ति ॥१॥ द्यूताद्राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवा, मद्याकृष्णनृपश्च राघवपिता पापड़ितो दूषितः। मांसाच्छ्रे - |णिकभूपतिश्च नरके चौर्याद्विनष्टा न के?, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीहतो रावणः॥२॥ वैरवैश्वानरव्याधि-18 वादव्यसनलक्षणाः । महानाय जायन्ते, 'वकाराः' पञ्च वर्द्धिताः॥३॥ घृतं सर्वापदां धाम, द्यूतं दिव्यन्ति दुर्द्धियः। द्यूतेन कुलमालिन्यं, द्यूताय श्लाघतेऽधमः॥४॥ राज्यच्युतिं वल्लभया वियोग, द्यूतानलः प्राप गतोरुभोगम् । प्रचण्डतामण्डितबाहुदण्डास्ते पाण्डवाः प्रापुररण्यवासम् ॥५॥ खञ्जकुण्डादिकान् दृष्ट्वा, द्यूतव्यसनपोषकान् । श्रेष्ठिसूर्मुमुचे Jan Education in tema For Private Personal Use Only
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy