SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Jain Education i | ॥ ५ ॥ मन्निन्दया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि पुरुषाः परतुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ ६ ॥ ददतु ददतु गालीर्गालिमन्तो भवन्तो, वयमिह तदभावाद्गालिदानेऽप्यशक्ताः, जगति विदितमेतद्दीयते विद्यमानं, ददति खरविषाणं किं महात्यागिनोऽपि १ ॥ ७ ॥ प्रायः सर्वसहस्यापि भवेयुर्मित्रशत्रवः । तापैः क्ष्मां शोषयेद् ग्रीष्मो, वर्षा तोयैश्च पोषयेत् ॥ ८ ॥ मुनेरपि वनस्थस्य, स्वीयकर्माणि कुर्वतः । त्रयः पक्षा, मित्रोदासीनशत्रवः ॥ ९ ॥ मानसंबन्धिसूक्तानि ११४ मुष्णाति यः कृतसमस्तसमीहितार्थ संजीवनं विनयजीवितमङ्गभाजाम् । जात्यादिमानविषजं विषमं विकारं, सन्माई - वामृतरसेन नयस्व शान्तिम् ॥ १ ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव, प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्त्ति कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा, मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम् ॥२॥ अधना धनमिच्छन्ति, धनमानौ च मध्यमाः । उत्तमा मानमिच्छन्ति, मानो हि महतां धनम् ॥ ३ ॥ कुसुमस्तवकस्येव, वृत्तिद्वयं मनस्विनः । मूर्ध्नि वा सर्वलोकस्य, शीर्यते वन एव वा ॥ ४ ॥ तावदाश्रीयते लक्ष्म्या, तावदस्य स्थिरं यशः । पुरुषस्तावदेवासौ, यावन्मानान्न हीयते ॥ ५ ॥ एक एव खगो मानी, सुखं जीवति चातकः । पिपासितो वा म्रियते, याचते वा पुरन्दरम् ॥ ६ ॥ मानिनो हतदर्पस्य, लाभोऽपि न सुखावहः । जीवितं मानमूलं हि, माने म्लाने कुतः सुखम् ॥ ७ ॥ क्षताक्षतात्ममानस्य मानिनो मरणं वरम् । न चापि क्षतमानस्य, कल्पान्तमपि जीवितम् ॥ ८ ॥ वरं For Private & Personal Use Only ww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy