SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ संसिद्धये ॥ ७ ॥ चक्षुर्दग्धं परस्त्रीभिहस्तौ दग्धौ प्रतिग्रहः । जिह्वा दग्धा परान्नेन, गतं जन्म निरर्थकम् ॥८॥ चण्डानिलः स्फुरितमब्दचयं दवातिवृक्षव्रज तिमिरमण्डलमर्कविम्बम् । वज्रं महीध्रनिवहं नयते यथाऽन्तं, वैराग्यमे कमपि कर्म तथा समग्रम् ॥ ९ ॥ भोगे रोगभयं सुखे क्षयभयं वित्ते च भूभृद्भयं, माने म्लानिभयं जये रिपुभयं वंशे है कुयोषिद्भयम् । दास्ये स्वामिभयं गुणे खलभयं देहे कृतान्ताद्भयं, सर्व नाम भयं भवेदिदमहो वैराग्यमेवाभयम् ॥१०॥ कश्चित्कालः स भावी जिनवचनरतो यत्र युक्तो यतीन्द्रामादौ मासकल्पं स्वजनजनसमो मुक्तलोभाभिमानः । पुण्यां पुण्यातिशायिप्रवरगुणयुतैर्जानिभिः सेवितां तां, भिक्षां निःसङ्गचेताः प्रशमरसरतोऽहं भ्रमिष्याम्यजस्रम् ॥११॥ गुप्तो मानविवर्जितो व्रतरतः षट्कायरक्षोद्यतः, कृत्वा साधुविहारितां शमरसो निःसङ्गचित्तः क्षमी । त्यक्ताहऋतिनिश्चलेन । मनसा ध्यायन् पदं नैवृतं, स्थास्येऽहं तु कदा शिलातलगतो भव्याय मार्ग दिशन् ? ॥१२॥ दग्ध्वा मोहं समस्तं निरवधिविशदं ज्ञानमुत्पाद्य लोके, तीर्थं निर्वाणमार्ग शुभतरफलदं भव्यसाय कृत्वा । गत्वा लोकान्तदेशं कलिमलरहितं सर्वशर्मातिशायि, लप्स्येऽहं मोक्षसौख्यं सहजनिजगुणं कोऽपि कालः स भावी ॥ १३ ॥ मोहत्यागसूक्तानि १०५ कारणानियतामेति, द्वेष्यो भवति कारणात् । स्वार्थार्थी जीवलोकोऽयं, न कश्चित्कस्यचिनियः॥१॥ वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निद्रव्यं पुरुषं त्यजन्ति Jain Education a l For Privale & Personal use only P w .jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy