SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां ॥ ७६ ॥ Jain Education परिग्रहः ॥ ६ ॥ अवश्यं यातारश्चिरतर मुषित्वाऽपि विषया, वियोगे को ? भेदस्त्यजति न जनो यत्स्वयममून् । ब्रजन्तः स्वातन्त्र्यात्किमपि परितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ ७ ॥ अंवलोअइ गंथत्थं, अत्थं गहिऊण पावए मुक्खं । परलोए देइ दिट्ठी, मुणिवरसारित्थया वेसा ॥ ८ ॥ अजानन् दाहात्म्यं पतति शलभस्तीत्रदहने, स मीनोऽप्यज्ञानाद्विडिशयुतमश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ ९ ॥ तृषा शुष्यत्यास्ये पिवति सलिलं स्वादु सुरभि, क्षुधार्त्तः सञ् शालीन् कवलयति मांस्पाकवलितान् । प्रदीप्ते रागानौ घननिविडमाश्लिष्यति वधूं, प्रतीकारे व्याधेः सुखमिति विपर्यस्यति जनः ॥ १० ॥ शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावलीनिर्मुक्तामृतसागराम्भसि मनाग्मग्नोऽपि नाचामति । निःसारे मृगतृष्णिकार्णविजलेऽश्रान्तोऽपि मूढः पिबत्याचामत्यवगाहतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ११ ॥ इन्द्रियदमनसंबन्धिसूक्तानि १०२ आपदां कथितः पन्था, इन्द्रियाणामसंयमः । तज्जयः संपदां मार्गो, येनेष्टं तेन गम्यताम् ॥ १ ॥ यस्य हस्तौ च पादौ च, जिह्वा च सुनियन्त्रिता । इन्द्रियाणि सुगुप्तानि रुष्टो राजा करोति किम् ? ॥ २ ॥ वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्त्तते, निवृत्तरागस्य गृहं तपोवनम् ॥ ३ ॥ जितं १ अवलोकयति ग्रन्थार्थं अर्थं गृहीत्वा प्राप्नुयात् मोक्षम् । परलोके ददाति दृष्टिं मुनिवरसदृशो वेश्याः ॥ ८ ॥ onal For Private & Personal Use Only १०१ वि पयेषु श्लो. ११ १०२इ. न्द्रियदमने श्लो. ९ ॥ ७६ ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy