________________
Jain Education Intr
जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च, ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च । यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया, पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु को रज्यते ? ॥ ३ ॥ वेश्यां नितम्बजघनस्तनभूरिभारामारोपयन्त्युरसि मूढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय, संजानते न हि शिलां निजकण्ठबद्धाम् ॥ ४ ॥ वेश्याऽसौ मदनज्वाला, रूपेन्धनसमन्विता । कामिभिर्यत्र हूयन्ते, यौवनानि धनानि च ॥ ५ ॥ विभवो वीतसङ्गानां, वैदग्ध्यं कुलयोषिताम् । दाक्षिण्यं वणिजां प्रेम, वेश्यानाममृतं विषम् ॥ ६ ॥ नयणिहिं रोअइ मणि हसइ जणु जाणइ सहु सच्चु । बेस विसिट्ठह तं करेइ जं कट्ठह करवत्तु ॥ ७ ॥ नखविक्रियां प्रकुरुते नाभिनिवेशं जने प्रकाशयति । नवधूपयोग्यदेहो, मुनिरिव वेश्याजनो भाति ॥ ८ ॥
विषयसुखसंबन्धिसूक्तानि १०१
विकम्पते हस्तयुगं वपुः श्रीः प्रयाति दन्ता अपि विद्रवन्ति । मृत्यावुपागच्छति निर्विलम्बं, तथापि जन्तुर्विषयाभिलाषी ॥ १ ॥ भिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं विशीर्णपटखण्डमयी च कन्था, हा हा तथापि विषयान् न परित्यजन्ति ॥ २ ॥ विषयगणः कापुरुषं करोति वशवर्त्तिनं न सत्पुरुषम् । बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥ ३ ॥ अविदितपरमानन्दो, वदति जनो विषय एव रमणीयः । तिलतैलमेव मिष्टं, येन न दृष्टं घृतं क्वापि ॥ ४ ॥ भल्ला भल्लिम तां करइ जां भल्ला न मिलति । भल्लाई भल्ला मिल्या तुला कांइ करंति ॥ ५ ॥ ददति तावदमी विषयाः सुखं, स्फुरति यावदियं हृदि मूढता । मनसि तत्वविदां तु विचारके, व विषयाः क सुखं क्व
For Private & Personal Use Only
jainelibrary.org