SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता- वल्यां 9684 ९९ स्त्रिया श्लो. ५० १०० वेश्यायां श्लो.८ ॥७५॥ लचित्ता यतः॥४०॥ यदि स्थिरा भवेद्विद्युत्तिष्ठन्ति यदि वायवः । दैवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥४१॥ नार्यश्चलाचला एव, यद्यपि स्युर्नियन्त्रिताः । पताका वंशबद्धाऽपि, भ्रमत्येव दिशो दिशम् ॥ ४२॥ रहो नास्ति क्षणो नास्ति, नास्ति प्रार्थयिता नरः। तेन नारद! नारीणां, सतीत्वमभिजायते ॥४३॥ सायर बप्पु मुरारि पिउ, चंदह जेवडु भाउ । लच्छी हीडे घरहिं घरं, महिला का मज्जाय? ॥४४॥ वल्ली नरिंदचित्तं वक्खाणं पाणि च महिलाओ। तत्थ य वच्चंति सया, जत्थ य धुत्तेहिं निजति ॥ ४५ ॥ हित्वा श्रीः पुण्डरीकाक्षं, यदेनं सुभगं श्रिता। इतीवायं विरूपाक्षो, गौरीं वपुषि बद्धवान् ॥ ४६ ॥ सुरूपाः पञ्च योद्धारः, पाण्डवाः पतयो मम । तथाऽपि चपलं चेतो, मुने! षष्ठेऽपि धावति ॥ ४७ ॥ सुरूपं पुरुषं दृष्ट्वा, पितरं भ्रातरं सुतम् । देहः क्लिन्दति नारीणामामपात्रमिवाम्भसा ॥ ४० ॥ नैव स्त्रीणां प्रियः कोऽपि, न चाढ्यो न च रूपवान् । गावस्तृणमिवारण्ये, आकांक्षन्ते नवं नवम् ॥४९॥ कामिन्यो नीचगामिन्यस्तटिन्य इव निश्चितम् । दारा राज्ञोऽपि यत्ताराः, प्रणयं यान्ति गोपतेः ॥५०॥ वेश्यासंबन्धिसूक्तानि १०० | कश्चुम्बति कुलपुरुषो, वेश्याऽधरपल्लवं मनोज्ञमपि । चारभटचौरचेटकनटविटनिष्ठीवनशरावम् ॥१॥ या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥२॥ १ वही नरेन्द्रचित्तं व्याख्यानं पानीयं च महिलाः । तत्र च ब्रजन्ति सदा, यत्र च धूतैः नीयन्ते ॥ ४५ ॥ MARACAMANASAAL ।। ७५॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy